|
|||||||
प्रायश्चित्तमयुखदृष्ट्या प्रायश्चित्तस्य प्रयोजनीयता |
|||||||
The Necessity of Atonement from the Point of View of the Atonement | |||||||
Paper Id :
18188 Submission Date :
2023-10-12 Acceptance Date :
2023-10-21 Publication Date :
2023-10-25
This is an open-access research paper/article distributed under the terms of the Creative Commons Attribution 4.0 International, which permits unrestricted use, distribution, and reproduction in any medium, provided the original author and source are credited. DOI:10.5281/zenodo.10209735 For verification of this paper, please visit on
http://www.socialresearchfoundation.com/anthology.php#8
|
|||||||
| |||||||
सारांश |
‘धङ्’ धारणपोषणयोरित्यस्माद्धातोरौणादिके ‘मन्’
प्रत्यये कृते धर्मशव्दो निष्पद्यते। तस्यैव धर्मस्य कर्त्तव्यं पालनं धारणं
संस्कार इत्यादयोऽर्थाः स्मृतिप्रसिद्धाः। तत्पतिपादकं शास्त्रं धर्मशास्त्रम्।
अर्थात् येन शास्त्रेण कर्त्तव्य-शौचाचार-व्यवहार-प्रायश्चित्तादीनां प्रतिपादनं भवति
तदुच्यते। तस्मात् विद्वद्भिः धर्मशास्त्रस्य लक्षणं बहुधा व्याकृतम्। तत्र
गुरुवरैः राष्ट्रपतिसम्मानितैः लव्धावसरधर्मशास्त्राचायैः
पण्डितश्रीकुलमणिमिश्रपादैः धर्मशास्त्रस्य लक्षणमित्थं प्रतिपादितं यत् –‘धर्मशास्त्रं
नाम सकलशास्त्रपुरस्कृतं निखिललोकसुरक्षकं कृत्याकृत्यप्रतिपादकत्वेन
नित्य-नियतोपादेयं साक्षाद्वेदार्थनुमापकत्वेन वेदवत्प्रमाणं
तपःस्वाध्यायपूतचरित्राणां यमनियमानुष्ठानप्रयतात्मनां
सकलसंस्कारसंस्कृतानामत्मगुणविद्योतितान्तःकरणानां
ब्रह्मादिस्तम्भपर्यन्तसकलहितभूतकाङ्क्षिणां रागद्वेष-रहितानां
मनु-गौतम-वसिष्ठादिमहर्षीणां नित्यस्वाध्याध्ययनपूतकण्ठोद्गीर्णत्वेन
सर्वजनग्रहणीयं गुणीगणसमादरणीयं प्राचीमतमं शास्त्रमिति’। |
||||||
---|---|---|---|---|---|---|---|
सारांश का अंग्रेज़ी अनुवाद | From ‘dhang’ in the sense of holding and nourishing, the word dharma is derived by the suffix ‘man’ in the dhatu rauna and others. The meanings of the duty of that same Dharma, such as observance, observance, rituals, etc., are well known in the Smriti. The scripture that establishes that husband is the scripture of religion. That is, the scripture by which duties, purity, behavior, atonement, etc. are represented is called. Therefore scholars have explained the characteristics of the scriptures in many ways. There, the great gurus and Presidential teachers of Dharmashastra, Pandit Sri Kulamanimishrapada, have explained the characteristics of Dharmashastra as follows: It is the easternmost scripture to be accepted by all, respected by the virtuous, by the great sages like Manu, Gautama, Vasishta and others, whose consciousnesses are enlightened, who desire the welfare of all beings up to the pillars of Brahma and others, who are free from passion and hatred. | ||||||
मुख्य शब्द | प्रायश्चित्तमयुखदृष्ट्या, प्रायश्चित्तस्य, प्रयोजनीयता। | ||||||
मुख्य शब्द का अंग्रेज़ी अनुवाद | From the Perspective of the Atonement, The Purposefulness of the Atonement. | ||||||
प्रस्तावना | धर्मशास्त्रे धर्ममेवाधारीकृत्यैव
परुषार्थचतुष्टयसिद्धिः प्रतिपादिता। धर्मः श्रौतस्मार्त्तभेदेन द्विधा विभक्तः।
तत्र स्मार्त्तधर्मः धर्मशास्त्रस्य विषयीभूतः। अतएव धर्मस्य तत्त्वं मानवस्य
समग्रं जीवनमभिव्याप्योपदिष्टम्। एते सर्वे धर्मशास्त्रस्य विषयाः
पुर्वोक्ताचारव्यवहारप्रायश्चित्तादयो भवन्ति। तेषु प्रथमतः आचार एव विशेषरुपं
विदधाति। मनुष्यस्य दिनचर्या, देशाचार-कुलाचार-वर्ण-जात्यादिव्यवस्था,
ब्रह्मचारि-गृहस्थाश्रमव्यवस्था, गर्भाधानद्यन्त्येष्ट्यन्तसंस्काराणां कालः,
दान-श्राद्ध-पञ्चमहायज्ञानां चर्चा,अशौच-भक्ष्याभक्ष्य-द्रव्यशुद्धि-प्रभितिविषया
आचारभागान्तर्गताः। |
||||||
अध्ययन का उद्देश्य | प्रायश्चित्तस्य का वा प्रयोजनीयता? प्रायश्चित्तेन पापक्षयः
भवति वा न। किञ्च लोकसंव्यवहारार्थं प्रायश्चित्तं क्रियते एव। इति सन्देहद्वयस्य
निराकरणं लेखस्यास्य उद्देश्यम्। |
||||||
साहित्यावलोकन | प्रायश्चित्तस्य प्रयोजनीयता प्रतिपादनविषये धर्मशास्त्रे मनु-याज्ञवलक्य-गौतम-विज्ञानेश्वरादि
स्मृति-सूत्र-निबन्धादिग्रन्थाधारेण अनेके शोधप्रबन्धाः उपलभ्यन्ते।
प्रस्तुतलेखस्य तथ्य संकलनावसरे मया विविधानां विश्वविद्यालयानां ग्रन्थालयेषु विविधस्रोतेषु
च उपलभ्यमानानां कतिपयानां पूर्वशोधप्रबन्धानां अध्ययनं कृतम्। तेषां एका
संक्षिप्तरूपरेखा अधः मया प्रदीयते। गुप्ता ऊषा(1997, कुमाऊं विश्वविद्यालय, नैनीताल, उत्तराखंड) स्वीय-शोधप्रबन्धः
“याज्ञवल्क्य स्मृति का समीक्षात्मक अध्ययन” मध्ये स्मृतिशास्त्रे
प्रतिपादिताः प्रमुखाः विषयाः यथा- वर्णव्यवस्था, आश्रमव्यवस्था, विचारव्यवस्था,
दण्डव्यवस्था, आशौचव्यवस्था, प्रायश्चित्तादिविषये समीक्षात्मकदृष्ट्या विचारः
उपस्थापितः। स्वाईँ संयुक्ता(2004, श्रीजगन्नाथसंस्कृतविश्वविद्यालयः, पुरी, ओडिशा)
स्वीय-शोधप्रबन्धः “प्रायश्चित्तविषये विज्ञानेश्वर-शूलपाणिमतयोः समीक्षणम्” मध्ये
महापातक-उपपातक-अनुपातकादिपापानां निर्णयपूर्वकम् उभयोः टीकाकारयोः
प्रायश्चित्तविषयकः मतानां समीक्षणं कृतम्। कुमारी सुशीला(2010, पंजाब
विश्वविद्यालय, पंजाब) स्वीय-शोधप्रबन्धः “स्मृतिशास्त्र में
प्रायश्चित्त विधान अनुशीलनात्मक अध्ययन एवं उसकी समकालीन प्रासंगिकता” मध्ये
स्मृतिशास्त्रेषु प्रतिपादिताः पापानुसारेण प्रायश्चित्तस्य विधानविषये सम्यकतया
उपस्थापिता। राणा ठाकुर(2015, राष्ट्रीयसंस्कृतविश्वविद्यालयः, तिरुपतिः,
आन्ध्रप्रदेशः) स्वीय-शोधप्रबन्धः “याज्ञवल्क्यस्मृत्यग्निपुराणयोः
प्रायश्चित्तानां तुलनात्मकमध्ययनम्” मध्ये विविधपापानाम् उल्लेखनपूर्वकं तेषां प्रायश्चित्तविधानम् उभयोः
ग्रन्थयोः आधारेण तुलनात्मकदृष्ट्या उपस्थापिता। |
||||||
मुख्य पाठ |
व्यवहारभागे मुख्यतो राजधर्मः
प्रतिपादितः। राज्ञः प्रजापालनमेव परमो धर्मः। तदर्थ दुष्टपरिज्ञानमनिवार्यम्। तच्च
व्यवहारं विना न सम्भवति। अतोऽत्र व्यवहारस्य पादचतुष्टयमष्टादशविवादपदानां च
चर्चां सम्यक् कृता। अयं राजधर्मो गुणधर्मोऽप्युच्यते। अनन्तरमन्तिमभागः प्रायश्चित्तभागः। स च
निमित्तधर्मः इति कथ्यते। अस्मिन प्रकरणे पापस्य लक्षणं,भेद,प्रायश्चित्तस्य
स्वरुपं, तद्भेदाः पापानुसारेण प्रायश्चित्तादीनां तदङ्गभूत-पाजापत्यचान्द्रायणादिव्रतानां
विवेचनञ्चाभिहितम्। अतः धर्मशास्त्रस्य सर्वेऽपि विषयाः महत्वपूर्णं वर्तन्ते।
एतेषु नानाविधविचार्यविषयेषु नीलकण्ठभट्टविरचितप्रायश्चित्तमयुखदृष्टा
प्रायश्चित्तस्य प्रयोजनीयताविषये किञ्चिन्मया प्रतिपाद्यते। पापं कृत्वा जनः
प्रायश्चित्तभाग्भवति। यतो हि वेदविहितकर्मणोऽननुष्ठानेन
वेदनिषिद्धकर्मणाश्चानुष्ठानेन, इन्द्रियाणामनिग्रहाच्च जनः पापमाचरति, तदर्थञ्चासौ प्रायश्चित्तीयते।
प्रसङ्गेऽस्मिन्नक्तं १मनुना यत् – अकुर्वन्विहितं कर्म निन्दितं
च समाचरन् । प्रसक्तश्चेन्द्रियार्थेषु
प्रायश्चित्तीयते नरः॥ इति॥ २याज्ञवल्क्येनापि
तत्प्रसङ्गे प्रतिपादितं यत्- विहितस्याननुष्ठानान्निन्दितस्य
च सेवनात्। अनिग्रहाच्चेन्द्रियाणां नरः
पतनमृच्छति॥ इति॥ याज्ञवल्क्यस्य वचनमिदं प्रायश्चित्तस्य
पापशुद्धिहेतुरिति३प्रायश्चित्तमयूखकारेण नीलकण्ठभट्टेन स्वग्रन्थे
प्रतिपादितम्। पापनाशार्थमेव प्रायश्चित्तं करणीयमिति तदिभप्रायः।४तेन
शूलपाणि- टोडरानन्दयोर्मतमुत्थायापि प्रायश्चित्तस्य स्वरुपमुक्तं यत् –पापनाशकं
कर्म प्रायश्चित्तमिति। एतदनन्तरं
प्रायश्चितस्य व्युत्पत्तिं प्रतिपादयता ५नीलकण्ठेन
उत्तराङ्गिरसवचनमुत्थाय प्रतिपादित यत्- प्रायो नाम तपः प्रोक्तं
चित्तं निश्चय उच्यते । तपोनिश्चयसंयुक्तं
प्रायचितमिति स्मृतम्॥ इति ॥ ‘प्रायः’‘चित्तं’चेति शब्दद्वयमुररीकृत्य प्रायतिशब्दः प्रवृतः। तत्र प्रायः
शब्दस्य तपः, पापं, विनाशः, अवश्यमित्याद्यनेके
अर्थाः, चित्तशब्दस्यापि निश्चय: शोधनं सन्धानमित्याद्यर्थाः सन्ति। तत्र
सामान्यतो येन पापक्षयो भवतीति विश्वासो जायते तत्कर्म प्रायश्चित्तमिति । अयं
प्रायश्चित्तशब्दः पापक्षयार्थे नैमितिके कर्मविशेषे रूढः। एवं प्रायिश्चत्ते कृतेऽस्यान्तरात्मा शुद्धतया प्रसीदति, अकरणेच नरकगमनं भवति । अतः पापं कृत्वा प्रायश्चित्तं
कर्त्तव्यमेव; अन्यथा मरणादनन्तरं नरकगमनं
ध्रुवमेव। पुनश्च जीवत्यपि जनः लोके संव्यवहारयोग्यो न भवति । अतः प्रायश्चितस्य
प्रयाजनद्वयं विद्यते। पापक्षयः लोकसंव्यवहार्यता च। अपि च पापं कृत्वाऽकृतप्रायश्चित्तो म्रीयते चेत्परजन्मनि
नानाकुत्सितयोनौ जन्म लभते, रूपविपर्ययं वा प्राप्य संसारेऽस्मिन् जायते यं
दृष्ट्वा जनोऽयं पाप्यासीदिति सर्वेऽवगन्तुं प्रभवन्ति । तस्मात् प्रायश्चित्तं
करणीयमेव। तत्रादौ प्रायश्चित्तस्य पापक्षयत्वरुपं प्रयोजनमालोच्यते।पापान्यनेकविधानि।तेषु
ब्रह्महत्यासुरापानादीनि महापातकानि, गोहत्यादीनि उपपातकानि, ब्रह्महत्यादि समान्यनुपातकानि, जातिभ्रंशकर-संकरीकरणा-ऽपात्रीकरण-मलिनीकरणादीनि लघुपातकानि
भवन्ति । गुरुपापानां क्षयार्थं गुरुप्रायश्चित्तं लघुपापानां कृते च
लघुप्रायश्चित्तं शास्त्रकारैर्व्यवस्थापितम् । यथोक्तं ६गौतमेन एनस्सु
गुरुषु गुरूणि लघुषु लघूनीति । पुनश्च कामाकामभेदेन ज्ञानाज्ञानभेदेन वा पापं
पृथक् पृथक् कल्पितम् । अकामकृतस्य अज्ञानकृतस्य वा पापस्य क्षयः विभिन्नप्रकारकप्रायश्चित्तेन
भवति, किन्तु कामकृतस्यज्ञानकृतस्य वा पापस्य क्षयः प्रायश्चित्तेन न भवति । तथापि
लोकसंव्यवहारार्थं प्रायश्चित्तं क्रियत एव। अस्मिन् प्रसङ्गे ७मनुना
प्रतिपादितं यत्- अकामतः कृते पापे
प्रायश्चित्तं विदुर्बुधाः । कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात्
॥ अकामतः कृतं पाप वेदाभ्यासेन
शुद्ध्यति। कामतस्तु कृतं मोहात्
प्रायश्चित्तैः पृथग्विधैः॥ इति॥ पुनश्च प्रसङ्गेऽस्मिन् ८याज्ञवल्क्येन
प्रतिपादितं यत् - प्रायश्चित्तैरपैत्येनी
यदज्ञानकृतं भवेत् । कामतो व्यवहार्य्यस्तु
वचनादिह जायते॥ इति॥ अत्र ज्ञानत इति वक्तव्ये कामत इति
यदुक्तं तद् ज्ञानकामनयोस्तुल्यत्वदर्शनार्थम्। यद्यपि न हिकर्म क्षीयत इति
मीमांसकानां विचारदृष्ट्या कृतं पापं कर्म नरकफलमदत्त्वा नैव शाम्यति, तस्मात् प्रायश्चित्तं वृथैवेति केचिद्वदन्ति, तथापि वचनबलात्
प्रायश्चितेन पापं क्षीयत एवेति सिद्धान्तात् प्रायश्चित्तं पापक्षयार्थमवश्यं
करणीयमिति । एतेन कामकृतस्य अकामकृतस्य ज्ञानकृतस्य, अज्ञानकृतस्य वा पापस्य कृते प्रायश्चित्तस्य प्रयोजनीयता विद्यते इति । यदि कक्षित्पापी पापपयोगिप्रायश्चित्तमकृत्वा
नास्तिकभावेन प्रायश्चित्तस्य वैयर्थं विभाव्य हठवशादिह लोके सञ्चरति, तर्हि तं
जना न केवलं जुगुप्सन्तेऽपि तु तेन सह सामाजिक सम्पर्कमपि नैव स्थापयन्ति ।
अर्थात् न कोऽपि तस्मै पाकार्थं स्वगृहादग्निं ददाति न वा कश्चित् तं पानार्थं
स्वकूपाज्जलं नेतुमनुमन्यते। येनासौ समाजे स्थितोऽप्यसामाजिकजन्तुरिव तिष्ठति । न
को पि तं स्वगृहमाह्वयति न वा तस्य गृह कोऽपि गच्छति। स च ग्राममध्ये स्थातुमनुमतो
न भूत्वा एकाक्येव ग्रामान्बहिस्तिष्ठति, येन तस्य जीवन दुर्विसहं भवति । अनेन प्रकारेणेहलोकेऽकृतप्रायश्चित्तस्य जनस्य
दशां विलोक्य ज्ञानतोऽज्ञानतो वा पापमाचरतो जनस्य प्रायश्चित्तकरणार्थं कियती प्रयोजनीता
तद् ज्ञातुं शक्यते। पुनश्च यदि कोऽपि पापं कृत्वा
प्रायश्चित्तं नाचरति तर्हि परजन्मन्यपि तत्कृतपापस्य फलस्वरूप रूपविपर्ययादिकं
दुःखबहुलश्चशृगालादितिर्यग्योनिषु प्रकर्षेण भूयो भूयो जायत इति मनुयाज्ञवल्क्यदिभिः
प्रतिपादितम्। अर्थात् यो ब्राह्मणहत्यां करोति यद्यस्मिन्जन्मनि स प्रायश्चितं
नाचरति, तर्हि परस्मिन्जन्मनि मृग-
कुक्कुर सूकरोष्टादिरूपेण वा जन्म लभते । एवं प्रकारेण अकृतप्रायश्चित्तस्य पापिनः
नानायोनिषु जन्म भवतीति विषये ९मनुना प्रातिपादितं यत् - श्वशूकरखरोष्ट्राणांगोजाविमृगपक्षिणाम्।
चण्डालपुक्कसानाञ्च ब्रह्महा
योनिमृच्छति॥ कृमिकीटपतङ्गाना विड्भुजा चैव
पक्षिणाम्। हिंस्त्राणां चैव सत्वानां
सुरापो ब्राह्मणो बजेत्॥ लूताहिसरटानां तिरश्चांचाम्बुचारिणाम्।
हिंस्त्राणां च पिशाचानां
स्तेनो विप्रः सहस्रशः॥ तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणामपि । क्रूरकर्मकृताश्चैव शतशो
गुरुतल्पगः॥इति॥ पसङ्गेऽस्मिन् १०याज्ञवल्क्येनापि
प्रतिपादितं यत्- मृगश्चशूकरोष्ट्राणा ब्रह्महा
योनिमृच्छति । खरपुल्कसवेणानां सुरापो नाम
संशयः॥ कृमिकीटपतङ्गत्वं स्वर्णहारी
समाप्नुयात्। तृणगुल्मलतात्वं च क्रमशो
गुरुतल्पगः॥इति॥ एवं महतः पापस्य परिणाम इव स्वल्पस्य
पापस्यापि कृतेऽकृतप्रायश्चित्तो जनो भिन्नभिन्नक्षुद्रयोनौ जायत इति
धर्मशास्त्रेषु प्रतिपादितम्। तद्यथा पररत्नापहारको हेमकारपक्षी,शाकं,ह्यवा मयूरः, गन्धान् हत्वा छुचुन्दरी, धान्यहारी मूषकः यानहर्ता उष्ट्रः फलापहर्ता वानरः,
जलापहरणे प्लवः, दुग्धमपहृत्य काकः, गृहोपस्कर-हरणे गृहकारिकीटविशेष:, मधु हृत्वा
दंशः, मांसहरणे गृध्रपक्षी, गां
हृत्वा गोधा, वस्त्र हृत्वा शिवत्री,
इक्ष्वादि- रसापहरणे सारमेय लवणहारी च चीरी भूत्वा जायते। विषयेऽस्मिन् बहुभिर्धर्मशास्त्रकारैर्बहुधा
प्रतिपादितम्। तत्र जनो यादृशं पापं करोति तत्सम्बन्धी भूत्वा पुनर्जायते इति
सर्वेषामभिप्रायः। तत्रादौ ११महर्षियाज्ञवल्क्येन प्रतिपादितं यत्- मूषको धान्यहारी
स्याद्यानमुष्ट्रः कपिः फलम्। जलं प्लवः पयः काको गृहकारी ह्युपस्करम्॥ मधु दंशः पलं गृध्रोगांगोधाग्निं
बकस्तथा । श्वित्री वस्त्रंश्वा रसं तु
चोरी लवणहारकः॥ इति॥ पुनश्च १२विष्णुस्मृतौ
प्रसङ्गेऽस्मिन् प्रतिपादितं यत्- पापात्मानां नरकेष्वनुभूतदुःखानां तिर्यग्योनौ
जन्म भवति ।अतिपातकिनः स्थावरगोनौ,महापातकिनः
कृमियोनौ, अनुपातकिनः पक्षियोनौ, उपपातकिनः
जलजयोनौ, जातिभ्रंशकरा जलचरयोनौ, सङ्करीकरणपापिनः
मृगयौनौ, अपात्रीकरणपापीनः पशुयोनौ, मलिनीकरणपापिनः मनुष्येष्वस्पृस्ययोनौ,
प्रकीर्णपापाश्च क्रव्यादा भूत्वा जायन्ते। एवं प्रकारेण नानादुःखं नारकीयतानाश्च
प्राप्य तिर्य्यग्योनौ च जन्मलब्ध्वा कर्मक्षयानन्तरं रोगादिलक्षणयुक्तः सन् पुरषयोनौ
पुनर्जायते। प्रसङ्गेऽस्मिन् १३मनुना प्रदर्शितं यत्-
सुवर्णचौर कौनख्यं सुरापः
श्यावदन्तताम्। ब्रह्महा क्षयरोगित्वं दौश्चर्म्यं
गुरुतल्पगः॥ पिशुनः पौतिनासिक्यं सूचकः
पूरिवक्त्रताम्। धान्यचौरोऽङ्गहीनत्वमातिरेक्यं
तु मिश्रकः॥ अन्नहर्ताऽऽमयावित्वंमौक्यं
वागपहारकः। बस्त्रापहारकः श्र्वैत्र्यं पङ्गुतामश्वहारकः॥ एवं कर्मविशेषेण जायन्ते
सद्विगर्हिता। जडमूकान्धवधिरा विकृताकृतयस्तथा॥
इति॥ विषयेऽस्मिन् याज्ञवल्क्योऽपि मनुना सहैकमतो भवति। अपि चऽस्मिन् प्रसङ्गे १४नीलकण्ठभट्टेन प्रायश्चित्तमयुखे मनुयाज्ञवल्क्यादिवचनान्युत्थाप्याऽकृतप्रायश्चित्तानां महापातकप्रभृतीनाञ्च गतिः प्रतिपादिता। तत्र मनुक्तं यथा - बहून् वर्षगणान् घोरान्नरकान्
प्राप्य तत् क्षयात्। संसारान् प्रतिपद्यन्ते
महापातकिनस्त्विह॥ इति॥ पुनश्च १५तेन यमनुवचनमुत्थाप्य
प्रसङ्गेऽस्मिन् प्रतिपादितं यत् - पतितै संप्रक्तश्चकृतघ्नो
गुरुतल्पगः। एते पतन्ति सर्वेषु
नरकेष्वनुपूर्वशः॥ महापातकसंयुक्तायुगं तिष्ठन्त्यधोमुखाः। रौरवे कूटसाक्षी च यश्च मिथ्याभिशंसकः॥ न्यासापहर्त्ता कुमतिर्विषमो
यश्च वृत्तिषु। तप्तकुम्भे स्वसृगामी गोघ्नो
राजभटाश्च ये॥ महाज्वाले दुहितरं स्नुषां
गत्वा च मातरम् । अजाविक: शौकरिकस्तेनश्च क्रोधनो नरः॥ रङ्गोपजीवी पशुहा शकुनी
ग्रामयाजकः । अभक्षभक्षो वान्ताशी विप्रो
धर्मपुरस्कृतः॥ इत्यादि॥ |
||||||
निष्कर्ष |
एतेनाऽकृतप्रायश्चित्तस्य मृतस्य गतिं
विलोक्य पापस्य कृते प्रायश्चित्तस्य कियती प्रयोजनीया तदनुमातुं शक्यते। एतावता
प्रायश्चित्तमयूखमाधारीकृत्य पापस्य प्रयोजनीताविषये समुपस्थापितम् । |
||||||
सन्दर्भ ग्रन्थ सूची | १. म.स्मृ-११-४४ २. या. स्मृ. प्रा. २१९-२२० ३. प्रा.म.-पृ.-१ ४. प्रा.म.-पृ-२ ५. प्रा.म.-पृ. २ ७. म.स्मृ -११/४५-४६ ८. या.स्मृ.पा- २२६ ९. म.स्मृ. १२५५-५८ १०. या.स्मृ.पा- २०७-२०८ ११. या.स्मृ.पा-२१४-२१५ १२. वि. स्मृ.-४४/१-१० १३. म.स्मृ. ११/-४९-५२ १४. प्रा.म. पृ.२० १५. प्रा.म.-पृ.१६ |
||||||
अंत टिप्पणी | १. गौतमधर्मसूत्रम्- चौखम्बा संस्कृत सीरिज अफिस, वारणसी, १९६६ । २. मनुस्मृतिः- चौखम्बा संस्कृत सीरिज, वारणसी, १९७० । ३. याज्ञवल्क्यस्मृतिः- चौखम्बा संस्कृत सीरिज अफिस, वाराणसी, १९८३। ४. विष्णुस्मृतिः - ओरिएण्टाल बुक हाउस, ०६४१ ५. प्रायश्चित्तमयूख:- गुजराट प्रिष्टिं प्रेस, मुम्बाई, १९२० |