|
|||||||
वेदेषु
व्यापार-प्रबन्धनम् |
|||||||
Business Management in the Vedas | |||||||
Paper Id :
18216 Submission Date :
2023-10-04 Acceptance Date :
2023-10-15 Publication Date :
2023-10-20
This is an open-access research paper/article distributed under the terms of the Creative Commons Attribution 4.0 International, which permits unrestricted use, distribution, and reproduction in any medium, provided the original author and source are credited. DOI:10.5281/zenodo.10548647 For verification of this paper, please visit on
http://www.socialresearchfoundation.com/anthology.php#8
|
|||||||
| |||||||
सारांश |
निगमनरूपेण कथितुं समर्थये यत् वैदिक काले व्यापार प्रबन्धनम् पूर्णरूपेण विकसितो तु न आसीत् परम् उन्नतिशीलो अवष्यम् अस्ति स्म। मुल्ये निर्धारण विषये नैतिकता अवर्तत। अथ च परवर्ती वैदिककाले ‘‘पणि’’ नाम्नः अनैतिक वणिज्समूहस्य सत्ता आर्विभवत्, यत आधुनिक कालेभ्रिस्ट व्यापारी इति कथ्यन्ते। |
||||||
---|---|---|---|---|---|---|---|
सारांश का अंग्रेज़ी अनुवाद | As an inference, I can say that business management was not fully developed in Vedic times but it must have been advanced. There was ethics about pricing. And in later Vedic times, an immoral group of merchants called the Panis came into power, who are called modern Calebrist merchants. | ||||||
मुख्य शब्द | व्यापार प्रबन्धन, नैतिकता, इन्द्र, तुला, पणि। | ||||||
मुख्य शब्द का अंग्रेज़ी अनुवाद | Business Management, Ethics, Indra, Libra, Pani. | ||||||
प्रस्तावना | वेदः अर्थात् तत्त्वज्ञानम् परम्परायाम् अपौरूषेयो विद्यते। प्रस्तुत शोधपपत्रे आगतम्+वेद’-पदस्य तात्पर्योस्ति- ‘‘वर्णात्मकम् वैदिकसाहित्यम् यथा ऋग्वेदे प्राथमिकी ऋचाा वर्तते- अग्निीमीड्ये पुरोहितम्/’’. अत्र अग्निम् इति प्रथम पदे-अ+ग्+न्+इ इति चत्वारः वर्णाः सन्ति। तेष्वपि अ इ इति द्वौ स्वरौ, ग्न् इति व्यन्जने। एतावदेव वेदेषु शेषानिपदानि व्याख्यायितव्यानि। अतः वेदाः वर्णसमाम्नायाः, वर्णात्मकाः सन्ति। साहित्यम् समाजस्य दर्पणम् मन्यन्ते विद्वांसः। एतादृषीमवधारणानुसारम् एवं व्यापारस्य (क्रय-विक्रयः वस्तु विनिमयम्) क्रिया चेतन समाजस्य एक आवष्यकम् अगंम् अस्ति, यस्य विषये साहित्यमाध्यमेन अवगन्तव्यम्। |
||||||
अध्ययन का उद्देश्य | वैदिक वाङ्मये आधुनिक
विषयान् आधारीकृत्य अपि मन्त्राणि सन्ति, यथा कृषिकर्म - द्यूतकर्म - व्यापार प्रबन्धनम् इत्यादः। ऐतेषां विषयाणाम्
प्रस्तुतिकरणमेव उद्देष्यम्। |
||||||
साहित्यावलोकन | प्रस्तुत शोध पत्रे आगतम् वेद’-पदस्य तात्पर्योस्ति- ‘‘वर्णात्मकम् वैदिकसाहित्यम् यथा ऋग्वेदे प्राथमिकी ऋचाा वर्तते- अग्निीमीड्ये पुरोहितम्/’’अत्र अग्निम् इति प्रथम पदे-अ+ग्+न्+इ इति चत्वारः वर्णाः सन्ति। तेष्वपि अ इ इति द्वौ स्वरौ, ग्न् इति व्यन्जने। एतावदेव वेदेषु शेषानिपदानि व्याख्यायितव्यानि। अतः वेदाः वर्णसमाम्नायाः, वर्णात्मकाः सन्ति। साहित्यम् समाजस्य दर्पणम् मन्यन्ते विद्वांसः। एतादृषीमवधारणानुसारम् एवं व्यापारस्य (क्रय-विक्रयः वस्तु विनिमयम्) क्रिया चेतन समाजस्य एक आवष्यकम् अगंम् अस्ति, यस्य विषये साहित्यमाध्यमेन अवगन्तव्यम्। कस्यचित् कार्यस्य योजनानुरूपेण सफलीभूताम् अवधारणाम्, प्रबन्धनम्’ इति कथ्यते। एता नवीना अवधारणा वर्तते, या मूलतः आंग्ल भाषातस मेनेजमेन्ट शब्देन अनुदितास्ति। अस्य प्रबन्धनस्य आर्थिक, सांस्कृतिक-सामाजिक-राजनैतिकाष्च-नैकानिभेदानि सन्ति,। परम् अस्य सर्वाधिको व्यापकक्षेत्रोंअस्ति व्यापार प्रबन्धनम् इति। |
||||||
मुख्य पाठ |
कस्यचित् कार्यस्य योजनानुरूपेण सफलीभूताम् अवधारणाम्, प्रबन्धनम्’ इति कथ्यते। एता नवीना अवधारणा वर्तते, या मूलतः आंग्लमाषातः मेनेजमेन्ट शब्देन अनुदितास्ति। अस्य प्रबन्धनस्य आर्थिक, सांस्कृतिक-सामाजिक-राजनैतिकाष्च-नैकानिभेदानि सन्ति,। परम् अस्य सर्वाधिको व्यापकक्षेत्रोंअस्ति व्यापार प्रबन्धनम् इति। कालतः वैदिक साहित्यम् जगतः उपलब्धं प्राचीनतमम् साहित्यम् वर्तते। वैदिकी संस्कृतिः मूलतः कबीलाई संस्कृतिः, कुल संस्कृतिष्च अस्ति, यस्याम् यज्ञः नाम्नी प्रतिष्ठिता संस्था आस। यज्ञ कर्मविषये वैदिकमंत्राणाम् अध्यात्मिक दैविक याज्ञिक वैज्ञानिकानि भाष्यानि प्रस्तुतानि। एवमपि नवाचाररूपे वैदिक मन्त्रेषु व्यापार- प्रबन्धनम् विषये ये संकेतानि प्राप्नुवन्ति, तानि आधारीकृत्य अधोलिखितेषु धारासु विमर्षो क्रियते 1. व्यापार प्रबन्धने निवेषितम् वित्तम् 2. व्यापार प्रबन्धने ऋणम् 3. व्यापार प्रबन्धने कराणि 4. व्यापार प्रबन्धने नैतिकता 5. व्यापार प्रबन्धने क्रय - विक्रय 6. व्यापार प्रबन्धने परिवहनम् 7. व्यापार प्रबन्धने आयात निर्याते 8. व्यापार प्रबन्धने उपलब्धा तकनीकी शब्दावली। 1. व्यापार प्रबन्धने निवेषितम् धनम् व्यापारे निवेषितं वित्तम् वर्धनीयम् इति सुप्रबन्धनस्य आदर्षो अस्ति यस्य उललेखों अथर्ववेदस्य एके सूक्ते प्राप्नोति। तत्र ऋषिः तृतीये मन्त्रे कथयति यत् व्यापारे निवेषितम् वित्तम् उन्नतेः इध्मघृतौ वर्तते, येन निवेषितम् वित्तम् प्रज्जवलीभूय प्रदीप्तम् भवेत्। इध्मेनाग्गन इच्छमानो घृतेनजुहोमि हव्यं तरसे बलाय यावदीषे ब्राम्हण वन्दमाना, इमां धियं शत सेसाय देवीम् - अथर्ववेद 7 3.15.3 इत्थेमव व्यावसयिको जनो इच्छति यत् - मम मूल धनम् वृद्धिम् आपनोत् न तु अल्पीभूतम् जातम्। येन धनेन प्रपणं चरामि, धनेन देवा, धनमिच्छमानः। तन्मे भूयो भक्तुमा कनियो, ऽग्ने सातध्नो देवान् दविषा निषेध - अथर्ववेद - 3.15.5 2. व्यापार प्रबन्धने ऋणम् कुषल व्यायारीजनाय अपि ऋणस्य आवष्यकता वरीवर्तते। ऋक्संहितायाम् अक्षसूक्ते द्यूतक्रीडायै अधमर्णस्य स्पष्टोल्लेखो एव न वर्तते अपि च तम् अधमर्णम् पाषतः बद्धवा कर्षणं अपि उल्लिखितास्ति। अधमर्णम् कुसीदिन्, उत्तमर्णाय् श्रेष्ठिन् शब्दानां प्रयोगोऽपि वेदे उपलब्धोअस्ति। ऋणप्रदानाय ऋसंनयन, ऋणदात्री कृते कला-षफौ शब्दप्रयोगौ प्राप्नुतः। अधमर्णावस्था अतीव पापात्मिका मन्यन्ते वैदिकऋषयः अतः एव ऋणमुक्तै अथर्ववेद समवायरूपेण त्रीणि सूक्तिनि प्राप्नुवन्ति- 6.17.18.19 3. व्यापारप्रबन्धने कराणि- व्यापारिकजनो लध्वस्तु उत वा गुरूः स शासकाय कराणि अर्जयन्ति एव। आचार्यो बलदेव उपाध्यायो कथयति यत् राजन्यवर्णस्य आजीविकायाः स्त्रोत राजकौषतः प्रदत्त धनानि आसन् एतद्धनं कररूपेण विषः विषपतिम् (राजाणम्) अप्रदेरन तम् करं पारिभाषिकरूपे, ‘बलि’ इति कथ्यते। करस्य एव अपरो भेदो शुल्कम् आसीत् यम् करम् (षुल्कं) बलवानजनो बलहीनजनतः अप्राप्नोत्। वैदिक साहित्ये कर व्यवस्थायाः उल्लेखनीया व्यवस्था अवर्तते यत् ब्राहम्णवर्णतः बलिम् शुल्कम् वा न आदेयत्। 4. व्यापार प्र्रबन्धने नैतिकता व्यापारकर्मणि सत्यता (ईमानदारी) अतीव आवष्यकं तत्त्वं वर्तते। यस्या सम्बन्धो नैतिकतायाम् विद्यते। वैदिक साहित्ये नैतिकानैतिकानाम् द्विविधानामेव व्यापारिकाणाम् उल्लेखो उपलब्धः। बलदेवोयाध्यायानुसारेण तत्र नैतिक व्यायारीणां कृते वणिज् इति अनैतिक व्यायारीणां कृते च पणि इति शदस्य व्यवहारो कृतः यास्केन पणिम्, वणिक्, कथयते। वस्तुतः आर्य वणिज्पणयोः मध्ये किन्चित् भेदरेखा वर्तते। यत् प्रथमो वणिज् वस्तुनाम् संग्रहं न अकरोत् आपणे वस्तुनः अभावो न क्रियते, सूदखोरो न आसीत, ईषदलाभ लब्धवा वस्तुनः विक्रयं अकरोत् सर्वस्मिन काले दानम् अदेयतं्, विविधानि यज्ञानि अकरोत्। द्वितीयों पणिः बस्तुनः संचयम् कृत्वा आपणे कृत्रिमम् अभावं उत्पादेयति ईषद लाभ लब्द्ध्वा वस्तुणः विक्रमम् अकरोत् दान दक्षिणादयः कदापि न ददाति यज्ञमपि नाकरोत्। बैदिकषब्दानां निर्वचनकर्तानाम आचार्ये यास्केन पणिम् वणिक् कथ्यते। ऋग्वेेदे सरमापणि संवाद (10.108) नाम्नः सूक्तो अस्ति, यस्मिन् पणिवर्गस्यः वणिजः अनैतिकतायाः स्पष्टम् प्रमाणम् विद्यते। वस्तुतः वैदिक व्यापारी वणिज् नैतिकाः आसन पणयस्तु अनैतिकाः आसन। 5. व्यापार प्रबन्धने क्रयविक्रये प्रबन्धनस्य सामान्यो नियमः वर्तते यत क्रेता अल्पमूल्यात् वस्तुम् क्रयकर्तु इच्छति, विक्रेता च अधिकाधिक मूल्यतः वस्तुनं विक्रेतुं इच्छति। वैदिक साहित्ये एतत् प्रक्रियायाः स्पष्टम् उल्लेखम् प्राप्तम्। ऋग्वेदस्य एकस्मिन् मन्त्रे आगतम् यत् एकदा विक्रेतुम् इच्छन् जनेन अनायासेन एव अधिकमूल्यवान् पदार्थम् क्रयकर्तुम् इन्छन् जनम् अल्पमूल्य समर्पितम्, यदा विक्रेता स्वाज्ञानता अस्मरत तदा स झटिति क्रेतुः समीपम् आगत्य स्वकीया मूल्यवती वस्तुं अयाचत। परम क्रेता स्पष्टरूपेण निषेधमकरोत् एवं वस्तुनः शेषमूल्यमपि न अदीयत। वस्तुतः वैदिक व्यापारिणः सिद्वान्तो वर्तते यत् वस्तुनः निर्धारित मूल्यम् एवं अन्तिम भवति स्म। क्रय विक्रय योग्यावस्तुनः आसन फलपाकान्ता औषधयः पवस्त, दर्ष‘ चर्मन् अजिन गावः इतयादयः। क्रय विक्रयोः ‘‘प्राथमिकविनिमये रूपे गौनिष्कन्च निष्चितम् निर्धारितम च आस। 6. व्यापार प्रबन्धने यातायातम् (परिवहन्) वैदिकव्यावसायिकाः स्थल जल वायुरूपाणि त्रिविधानि एव मार्गाणि साधनानि च उपयोगम् अकुर्वन्। स्थलमार्गेषु पदाचारी रथी अनड्.वाहीनाम् गमनस्य पृथक-पृथक मार्गस्य व्यवस्थायाः उपयोगम् अकुर्वन। शकट शकटीत्यभिधाने द्वयेपिः स्थलमार्गिणामकृते यात्रासाधनं आस्ताम्। सामुदिकमार्गे साधनानि आसन् नौका-अरित्रपरणी प्लवाः इत्यादयः शम्वी नाम्नः धैर्यवाननाविकास्य उल्लेखो प्राप्यते। 7. व्यापार प्रबन्धे आयात-निर्यातौ आयातनिर्यातौ व्यापार प्रबन्धनस्य अभिन्नम् अंगम् वर्तते यस्य सन्दर्भः वैदिकसाहित्येषु बहुषः उल्लिखता सन्ति तान् सन्दर्भान् डॉ0 प्रियवृत वेद वाचस्पतिना स्वकीय शोधप्रबन्धे प्रस्तुतानि कृतानि। ऐतेषां महाभागानांमतौ अथर्ववेदस्य वणिज्सूक्ते प्राप्तौ प्रपण शब्दौ क्रमषः निर्यात आयातौ कृते प्रयुक्ते स्तः। प्रियवृतमहभागानां मतानुसारेण धनाभिलाषिवणिजाः स्वकीयान् विक्रय पदार्थान् देषान्तरे गत्वा विक्रिये प्रपण इति अथ च देषान्तरात् आनीय स्वदेषे विक्रिये वस्तून् प्रतिपण’’ इति ऋचायाम् उक्तम्। 8. वैदिक वाग्ड्.मये व्यापार प्रबन्धनविषयका तकनीकीषब्दावली- 1. गोः - वस्तुक्रयस्य इकाई - ऋग्वेद - 4.24.10 2. निष्कः - स्वर्णमुद्रा - ऋग्वेद - 1.126.1 3. शुल्कः - 1. पदार्थस्य देयम् मूल्यम् 1. एतन्नामको करः ऋग्वेद 8.1.5 4. वस्न्यम् - वस्तुनः मूल्यम् ऋग्वेद - 4.24.9 5. वस्न्यम् - मूल्यरूपे धनप्राप्तेः इच्छुकः - ऋग्वेद 4.27.21 6. वरन्य - मूल्यवान् पदार्थः - ऋग् - 10.34.3 7. प्रपणः - 1.क्रयकर्मम् 2.वस्तुन्ः देषान्तरे नीत्वा विक्रयणम् अथर्ववेद 3.15.4 8. प्रतिपणः - 1.आदान प्रदाने 2.वस्तुनः देषान्तरात् आनीत्य विक्रयणम् अथर्ववेद - 3.15.4 9. तुला - 1.पापपुण्यकर्माणौ मापिका 2.तोलनक्रियायन्त्रः - वाजसनेयसंहिता - 30.17 10. मानम् - तोलस्यमापकः - तैतिरीय संहिता - 3.2.6 11. कृष्णलः - ऊनतोलमापकः - मैत्रायणीसंहिता - 2.2.2 12. धनम् - वस्तुनः क्रेता धनराषिः - अथर्ववेद - 3.15.6 13. इन्द्रः - वणिज् अथर्ववेद - 3.15.1 14. अनस् - पदार्थानाम् वाहिका - ऋग्वेद - 4.30.10 15. अनड्.वाह - वाहनकर्षको गोः - ऋग्वेद - 10.85.10 16. छदिर् - वाहिकायाः आधारः - ऋग्वेद - 10.85.10 17. शकट/षकटी - भारवहिका - ऋग्वेद - 10.146.3 18. अरित्रम् - नौचालको चप्पू - ऋग्वेद - 1.116.5 19. अरित्रपरणी - साधारणानौका - ऋग्वेद - 10.101.9 20. प्लवः - दु्रतगामी नौका - ऋग्वेद - 1.182.5 21. शम्वी - वीरनाविकस्य अभिधानम् - अथर्ववेद - 9.2.6 22. पणिः - स्तेनवणिजाः - ऋग्वेद - 10.108 23. कुसीदिन् - उत्कोचेन सह ऋणदाता - तैतीरिय संहिता - 3.3.8 24. श्रेष्ठिन् - निष्छल ऋणदाता - ब्राहम्ण - 3.1.4 25. ऋण संमनयनम् - ऋणमुक्तिः - ऋग्वेद - 8.47.17 26. कला - उत्कोचस्य तालिका - ऋग्वेद - 8.47.17 27. शफः - उत्कोचस्य तालिका - ऋग्वेद - 8.47.17 28. बलिः - विषा दीयमानो करः - अथर्ववेद - 6.117.1 29. बलिहृत - करगृहीत नायकः - ऋग्वेद - 10.173.6 30. तुविक्षत्रा - बह्वीधनस्वामिनी - अथर्ववेद - 7.6.2 31. शेवधि - रत्नागारः, कोषालयः अथर्ववेद - 6.55.5 32. प्रवसन् - परदेषोनिवासीपुरूषः - अथर्ववेद - 6.62.2 33. दाषुष् - करदात्री प्रजाः - अथर्ववेद - 6.114.1 34. पतयालु लक्ष्मी - पातयिता लक्ष्मी - अथर्ववेद - 6.119.2 35. कृष्टिराधिः - धन्यसम्पन्नो कीनाषः - अथर्ववेद - 8.10.4 36. भूरिधना - धनयुक्तो प्रवासीपुरूषः - अथर्ववेद - 6.62.2 37. वसुरूचिः - धनचिकिर्षुः वैष्यः - अथर्ववेद - 8.10.2 38. समिधा - स्वेच्छापूर्वको देयम् करः - अथर्ववेद - 11.1.4 39. गृध्य - धनस्य लोभी - अथर्ववेद - 12.2.38 40. धनपालः - धनस्य रक्षकः - अथर्ववेद - 19.35.2 41. तुविराधस् - महाधनी - अथर्ववेद - 20.12.5 42. श्वध्नी - धनस्यइच्छुकः - अथर्ववेद - 20.34.4 43. अर्थम् - धनम् - अथर्ववेद - 20.92.14 44. रायः अवनिः - धनस्य रक्षकः ऋग्वेद - 4.1.10 45. दृविणोद्रा - धनस्य दाता - ऋग्वेद - 1.15.7 46. रेवान् - धनवान् - ऋग्वेद - 1.18.2 47. ऋणयावा - अपरान् ऋणान् पूरयिता - ऋग्वेद - 1.87.2 48. रेवण - धनम् - ऋग्वेद - 1.31.4 49. रेवती - प्रषंसनीयम् धनम् - ऋग्वेद - 1.30.15 50. राधस् - लौकिकम् धनम् - ऋग्वेद - 1.15.5 51. नृष्ण - धनवल - अथर्ववेद - 8.5.21 52. धनम् - मुद्राधनम् - अथर्ववेद - 7.10.5 53. वसुः - आत्मधनम् - अथर्ववेद - 1.103.3 54. द्रविणम् - सुपथेन अर्जितम् धनम् - अथर्ववेद - 6.82.2 55. रयिः - प्राकृतिकम् धनम् - अथर्ववेद - 6.83.4 56. अराप्य - असमीचीनम् धनम् - अथर्ववेद - 6.83.5 57. चरितम् - व्यापारे कार्यमाणो धनम् (क्रियाषील पूंजी) - अथर्ववेद - 3.15.4 58. उत्थितम् - व्यापारे लाभरूपेण प्राप्तो धनम् (लाभांषः इति) - अथर्ववेद - 3.15.4 59. देवयाना - द्यावापृथिवीमध्ये वाणिज्यमार्गम् - अथर्ववेद - 3.15.2 |
||||||
निष्कर्ष |
निगमनरूपेण कथितुं समर्थये यत् वैदिक काले व्यापार प्रबन्धनम् पूर्णरूपेण विकसितो तु न आसीत् परम् उन्नतिषीलो अवष्यम् अस्ति स्म। मूल्येर्धारणविषये नैतिकता अवर्तते। अथ च परवर्ती वैदिककाले ‘‘पणि’’ नाम्नः अनैतिक वणिज्समूहस्य सत्ता आर्विभवत्, यत आधुनिक काले भ्रष्ट व्यापारी इति कथ्यन्ते। |
||||||
सन्दर्भ ग्रन्थ सूची | 1. इध्मेनाम्न इच्छामानो घृतेन, जुहाति हव्यं तरसे बलाय। यावदीषे ब्राहम्ण वन्दमाना, इमां धियं शत सेसाय देवीम्। अथर्ववेद - 3.15.3 2. येन धनेन प्रपणं चरामि, धनेन देवा धनमिच्छमानः। तन्मे भूयो भवतुमा कनीयों - अग्ने सातध्नों देवान् हृविषा निषेध।। अथर्ववेद - 3.153 3. ऋग्वेद - 10.34.10 4. ऋग्वेद - 10.34.4 5. तैतिरीय संहिता - 3.3.8.8.9 6. तैतिरीय ब्राहम्ण - 3.1.4.10 7. यथा कालो यथा शफं, यथा ऋणा संनयामति। ऋग्वेद - 8.47.17 8. संस्कृत वांगमय का बृहत् इतिहास प्रथम भाग पृष्ठ 610 सम्पादक-आ0 बलदेव उपाध्याय 9. अथर्ववेद - 3.26.3 10. संस्कृत वांगमय का बृहत् इतिहास प्रथम भाग, पृष्ठ 610 11. पणिर्वणिम् भवति। पणिः पणनात्। वणिक् पण्यं नेेनेक्ति। निरूक्त - 2.17 12. संस्कृत वांगमय का बृहत् इतिहास प्रथम भाग पृष्ठ 608 13. भयसा वस्नमचरत् कनीयो - अविक्रीतों अनाकिषं पुनर्यन्। स भूयसा कनीयों नारिरेचीद् - दीनादक्षा विदुहन्ति प्रवाणम्।। क इमं दषभिर्ममेन्द्र, क्रीणति धेनुभिः। यदा वृत्राणि जंघनद् अर्थनं मंे पुनर्ददत्।। ऋग्वेद - 2.24.9.10 14. ये ये पन्थानो बहवो जनायना, रथस्य वर्त्मानष्य यातवे। यैः संचरन्त्युभये भद्रपापास्तं पंथानं जयेमानम् अमित्रम् अतस्करम् यच्छिवे, तेन नो मृड। अथर्ववेद - 12.1.47 15. ऋग्वेद - 4.30.10 16. ऋग्वेद - 1.25.7 17. ऋग्वेदन - 10.10.12 18. ऋग्वेद - 1.182.5 19. शम्वीय नावम् उदकेषु धीरः - अथर्ववेद 9.2.6 20. वेदों के राजनीतिक सिद्धान्त, भाग दो, पृष्ठ - 121 |