शिवः परमेश्वरः
सृष्टिनिर्माणार्थं पञ्चब्रह्मात्मकत्वेन ईशानादिरूपेण आत्मानं व्यक्तं कुरुते-
विश्वब्रह्माण्डस्य मूलं कारणं परमेश्वरः शिव एवास्ति।
क्षिति-अप्-तेज-मरुत्-व्योमैः। वस्तुतः पञ्चविंशतितत्त्वात्मा स महेश्वरः पञ्चमहाभूतकारणशब्दादितन्मात्ररूपेण
विश्वस्य कोणे अनुकोणे एव परिव्याप्तोऽस्ति।
शैवपुराणेषु
मुख्यतः शिववायुलिङ्गादिपुराणेषु शिवस्य बहवोऽवताराः वर्णिताः सन्ति। यथा-
शिवावतारा
अमिता सद्भक्तहितकारकाः।
सङ्ख्या न
शक्यते कर्तुं तेषां च मुनिसत्तमाः॥
शैवपुराणपर्यालोचनया
परमेश्वरशिवस्य पञ्चविधावताराः सम्मुखमायान्ति ते यथा (१) स्वरूपावतारः, (२)
पूर्णावतारः, (३) अंशावतारः, (४) लीलावतारः, (५) योगावतारः
स्वरूपावतारे
अपि लौकिकस्वरूपावतारः यथा
1. लौकिकस्वरूपावतारः
सर्वेषामेव
लोकानां यदुपादानकारणम्।
निमित्तकारणं
चाहस्स शिवः पञ्चधा स्मृतः॥
पञ्चब्रह्मात्मकस्वरूपावतारविषये
पुराणेऽस्मिन् प्रतिपादितं यत् परब्रह्मणः शिवस्य प्रथमा मूर्तिः क्षेत्रज्ञः
स्मृतः। स च प्रकृतिवर्गस्य भोक्ता भोग्यश्चेशानसंज्ञत एव। तद्यथा-
ईशानः परमो
देवः परमेष्ठी सनातनः।
श्रोत्रेन्द्रियात्मकत्वेन
सर्वभूतेष्ववस्थितः॥
तस्य शम्भोः
द्वितीया मूर्तिः तत्पुरुषाख्या। गुह्यातिमिका सा हि प्रकृतिर्विरोधा सा च
तत्पुरुषाख्या मूर्तिः त्वगिन्द्रियात्मिका। तद्यथा-
स्थितस्तत्पुरुषो
देवः शरीरेषु शरीरिणाम्।
त्वगिन्द्रियात्मकत्वेन
तत्त्वविद्धिरुदाहृतः॥
शम्भोः तृतीया
मूर्ति अघोराख्या धर्माद्यष्टाङ्गसंयुता सा बुद्धेः मूर्तिरित्युक्ता। सा च
मूर्तिः दर्शनेन्द्रियात्मिका। तद्यथा-
अघोरोऽपि
महादेवश्चक्षुरात्मतया बुधैः।
कीर्तितः
सर्वभूतानां शरीरेषु व्यवस्थितः॥
शम्भोः चतुर्थी
वामदेवाख्या मूर्तिः अहङ्कारात्मिका। सा सर्वं व्याप्य व्यवस्थितास्ति। सा च
जिह्वेन्द्रियात्मिका। तद्यथा-
जिह्वेन्द्रियात्मकत्वेन
वामदेवोऽपि विश्रुतः।
अङ्गभाजामशेषाणामङ्गेषु
परिधिष्ठितः॥
सद्योजाताख्या
शम्भोः पञ्चमी मूर्तिः सर्वेष्वेव शरीरेषु मनस्तत्त्वरूपेण व्यवस्थितास्ति। सा
घ्राणेन्द्रियात्मिका। यथा-
घ्राणेन्द्रियात्मकत्वेन
सद्योजातः स्मृतो बुधैः।
प्राणभाजां
समस्तानां विग्रहेषु व्यवस्थितः॥
एवं प्रकारेण
लिङ्गपुराणे पञ्चमूर्त्तयः यथा- (१) शिवस्य प्रथमा मूर्तिः क्षेत्रज्ञः, (२)
शिवस्य द्वितीया मूर्तिः तत्पुरुषाख्या, (३) शिवस्य तृतीया मूर्ति अघोराख्या, (४) शिवस्य
चतुर्थी वामदेवाख्या, (५) शिवस्य पञ्चमी मूर्तिः सद्योजाताख्या।
लिङ्गपुराणे
क्षित्यप्तेजमरुद्व्योम-इत्यादीनां पञ्चमूतानां कारणत्वेन
शब्दस्पर्शरूपरसगन्धादीनां पञ्चतन्मात्राणां वर्णनप्रसङ्गे शिवस्य
पञ्चब्रह्मात्मकस्वरूपं प्रतिपादितमस्ति। शिवपुराणे महेशस्य
पञ्चब्रह्मात्मकस्वरूपावतारः किञ्चिद् भिन्नरूपेण वर्णितो वर्तते। तद्यथा-
'ब्रह्मसंज्ञमहेशस्य मूर्तयः पञ्च विश्रुताः।
ईशानः शिवरूपश्च गरीयान् प्रथमः स्मृतः॥
भोक्तारं प्रकृतेः साक्षात्क्षेत्रज्ञमधितिष्ठति।
शैवस्तत्पुरुषाख्यश्च स्वरूपो हि द्वितीयकः॥
गुणाश्रयात्मकं भोग्यं सर्वज्ञमधितिष्ठति।
धर्माय साङ्गसंयुक्तं बुद्धितत्त्वं पिनाकिनः॥
अघोराख्यस्वरूपो यस्तिष्ठत्यस्तृतीयकः।
वामदेवाह्वयो रूपश्चतुर्थः शङ्करस्य हि॥
अहङ्कृतेरधिष्ठानो बहुकार्यकरो सदा।
ईशानाह्वस्वरूपो शङ्करस्येश्वरः सदा॥
श्रोत्रस्य वचसश्चापि विभोर्व्योम्निस्तथैव च।
त्वक्पाणिस्पर्शवायूनामीश्वरं रूपमैश्वरम्॥
पुरुषाख्यं विचारज्ञा मतिमन्तः प्रचक्षते।
वपुषश्च रसस्यापि रूपस्याग्नेस्तथैव च॥
अघोराख्यमधिष्ठानं रूपमाहुर्मनीषिणः।
रसनायाश्च पायोश्च रसस्यापां तथैव च॥
ईश्वरं वामदेवाख्यं स्वरूपं शाङ्करं स्मृतम्।
घ्राणस्य चैवोपस्थस्य गन्धस्य च भ्रुवस्तथा॥
सद्यजाताह्वयं रूपमीश्वरं शङ्करं विदुः॥
शिवस्यैते पञ्चस्वरूपावताराः शिववत् सदैव वन्दनीयाः पूज्याश्च सन्ति। तदुक्तं
शिवपुराणे यथा-
'इमे स्वरूपाः शम्भोर्हि वन्दनीयाः प्रयत्नतः।'
कदाचिच्च सृष्टेः निर्माणार्थं शिव आत्मानमष्टधा विभज्य व्यक्तं कुरुते।
शिवस्यैते अष्टस्वरूपावताराः शिव-लिङ्ग-वायु-इत्यादिषु पुराणेषु प्रतिपादिताः
सन्ति।
शर्वो भवस्तथा रुद्रो उग्रो भीमः पशोर्पतिः।
ईशानश्च महादेवो मूर्तयश्चाष्ट विश्रुताः॥
लिङ्गपुराणे उत्तरार्धे च परमात्मनः शिवस्य अष्टस्वरूपावताराणां प्रतिपादनं
समुपलभ्यते। तेषामवताराणां नामानि तथा तेषां पत्नी-पुत्राणाञ्च नामानि तत्र
प्रतिपादितानि सन्ति। तानि चेमानि-
क्रमः
|
स्वरूपम्
|
नाम
|
पत्नी
|
पुत्रः
|
१
|
विश्वम्भरात्मकम्
|
शर्वः
|
विकेशी
|
अङ्गारकः
|
२
|
जलात्मकम्
|
भवः
|
उमा
|
शुक्रः
|
३
|
वह्न्यात्मकम्
|
पशुपतिः
|
स्वाहा
|
षण्मुखः
|
४
|
पवनात्मकम्
|
ईशानः
|
शिवा
|
मनोजवः
|
५
|
व्योमात्मकम्
|
भीमः
|
दिशः
|
सर्गः
|
६
|
सूर्यात्मकम्
|
रुद्रः
|
सुवर्चला
|
शनैश्वरः
|
७
|
सोमात्मकम्
|
महादेवः
|
रोहिणी
|
बुधः
|
८
|
यजमानात्मकम्
|
उग्रः
|
दीक्षा
|
सतानाख्यः
|
एतेषामवताराणां
पत्नीपुत्राणाञ्च नामानि वायुपुराणे लिङ्गपुराणेन साकं साम्येन एव प्रदत्तानि
सन्ति। सृष्टिरचनार्थं परमेश्वरशिवस्यैते लौकिकस्वरूपाणि शैवपुराणेषु
प्रतिपादितानि सन्ति।
2. अलौकिकस्वरूपावताराः
अलौकिकस्वरूपावताराः विश्वस्य रक्षार्थं परमेश्वरः शिवः कदाचिदलौकिकं स्वरूपं
धृत्वा आवश्यकतानुसारं भूतले पाताले स्वर्गे यत्र कुत्रापि च अवतीर्णो भवति।
शिवस्य अलौकिकस्वरूपावताराः सशक्तिकाः शिवपुराणे प्रतिपादिताः सन्ति। यथा
शिवस्यार्धनारीश्वरावतारः मैथुनीसृष्ट्या प्रजावृद्धिनिमित्तं भगवता शिवेन कल्पितोऽभूत्।
तथा च वीरभद्रशरभावतारौ दृप्तनृसिंहोग्ररुद्रज्वाला-सन्तप्तजगतः रक्षणार्थाय शिवेन
धृतौ। समुद्रमन्थनोद्भुतसुधान्तृप्त-दृप्तदेवमदापहाराय भगवता शिवेन यज्ञेश्वराख्य
अलौकिकस्वरूपावतारः कल्पितोऽभूत्। समुद्रसञ्जात-दिव्यनारीभिः पाताले विष्णोः
बहुकालविहरणं तथा तासु विष्णोरासक्तिमालोक्य तद्बोधनाय महेशेन वृषेशाख्यमलौकिकं
स्वरूपं धृतम्। तथा च श्रीगिरिशाद्या-दशसङ्ख्यकावताराः शिवस्य अलौकिकस्वरूपावताराः
सन्ति। शिवपुराणे दशावताराः प्रतिपादिताः सन्ति। यथा-
१
|
महाकालः
|
महाकाली
|
२
|
तारनाम
|
तारा शक्तिः
|
३
|
भुवनेशः
|
भुवनेशी शिवा
|
४
|
श्रीविद्येशः
|
श्रीविद्या शिवा
|
५
|
भैरवः
|
भैरवी गिरिजा
|
६
|
छिन्नमस्तकनाम शिवः
|
छिन्नमस्तका गिरिजा
|
७
|
धूमवान्
|
धूमवती शिवा
|
८
|
बगलामुखः
|
बगलामुखी महानन्दा
|
९
|
मातङ्गः
|
मातङ्गी
|
१०
|
कमलः शम्भुः
|
कमला गिरिजा
|
एते दशमिता शैव अवतारास्सुखप्रदाः।
भुक्तिमुक्तिप्रदाश्चैव भक्तानां सर्वदास्सताम्॥
दैत्योपद्रवात् देवरक्षाकामकश्यपतपसा परितुष्टेन शिवेन देवाननां
सर्वतस्सुरक्षार्थं एकादशस्वरूपावताराः धृता इति शिवपुराणे प्रतिपादितं विद्यते।
कपाली पिङ्गलो भीमो विरूपाक्षो विलोहितः।
शास्ता जपादहिर्बुध्न्यश्शम्भुश्चण्डो भवस्तथा॥
1. पूर्णावताररूपेण
शिवः
शैवपुराणेषु शिवस्यावतारविषये बहुतथ्यं समुपस्थापितं विद्यते। पूर्णावतारस्य
भैरवस्य सम्पूर्णवर्णनं तु शिवपुराणे एव समुपलभ्यते। भैरवः भगवतः शिवस्य
पूर्णावतारः इति तत्रैव प्रतिपादितमस्ति। तद्यथा शिवपुराणे-
भैरवः पूर्णरूपो हि शङ्करस्य परात्मनः।
मूढास्तं वै न जानन्ति मोहिताश्शिवमायया॥
2. अंशावताररूपेण
शिवः
कदाचिदावश्यकतानुसारं परमेश्वरः शिवः भक्तानामनुग्रहार्थं तेषां
दोषनाशयितुमंशेनावतरति। शिवपुराणानुसारं वस्तुतः दुःखमथवा दण्डविधानमेव
भक्तानामुपरि भगवत्कृपैव यया तेषां कल्याणं साधितं भवति। तद्यथा-
जयते पुण्यपापाभ्यां शङ्करस्सुखदः सदा।
कदाचिच्च परीक्षार्थं दुःखं यच्छति वै शिवः॥
अन्ते च सुखदः प्रोक्तो दयालुत्वान्न संशयः।
यथा चैव सुवर्णं च शोधितं शुद्धतां व्रजेत्॥
तथा च हनुमानिति नामभाक् महाबलपराक्रमः कपितनुः शिवस्यांशावतार आसीत्। तद्यथा-
ततोऽभूत्स सुकण्ठस्य मन्त्री कपिवरस्सुधीः।
सर्वथा सुहितं चक्रे सुग्रीवस्य हरांशजः॥
3. लीलावताररूपेण
शिवः
लीलाशब्दस्य व्यत्पत्तौ लीङ् श्लेषणे इति धातोः सम्पदादित्वात्
क्विप्-प्रत्यये कृते लीः शब्दः निष्पन्नो भवति। एवं लीयम् आनन्दं लीतीति ला। ला
आदाने इति धातोः क-प्रत्यये कृते लीलाशब्दः निष्पद्यते।
आप्तकामपूर्णकामोऽपि लीलारूपधरो हरः कदाचिदात्मनः व्यतिरिक्तया शक्त्या रमते।
तद्यथा-
न हीशो भगवाञ्छक्त्या ह्यात्मनो व्यतिरिक्तया।
कदाचिद्रमते रुद्रो लीलारूपधरो हरः॥
भक्तानां प्रार्थनामङ्गीकृत्य नानालीलाविशारदः शिवः कौतुकान्नरदेहं गृहीत्वा
धरातले अवतरति।
नानालीलो महेशानः कौतुकान्नरदेहवान्।
शिवपुराणे भगवतः शिवस्य केचन लीलावताराः प्रतिपादिताः सन्ति। तेषु
पिप्पलादवैश्यनाथावतारादयः प्रमुखाः सन्ति।
एवं लीलावतारो हि शङ्करस्य महाप्रभोः।
पिप्पवादो मुनिवरः नानालीलाकरः प्रभुः॥
4. योगेश्वरावताररूपेण
शिवः
शिवपुराणस्य शतरुद्रसंहितायां वायवीसंहितायां तथा लिङ्गादिषु पुराणेषु
योगावताराणां नामानि प्रदत्तानि सन्ति। सर्वावतारेषु सुव्रताः
शिवस्याष्टाविंशयोगावताराः द्वापरान्ते कलेरादौ च सम्भवन्ति। एते अवताराः
योगमार्गप्रवर्द्धकाः लोकानामुपकारकाश्च सन्ति। शिवस्य प्रत्येकं योगावतारे
योगमार्गप्रचारकाः चत्वारः शिष्याः उत्पद्यन्ते। एते चत्वारः महाशैवाः पाशुपताः
भस्मोद्धूलितविग्रहाः रुद्राक्षमालाभरणास्त्रिपुण्ड्राङ्कितमस्तकाः धर्मरताः
जितेन्द्रियाः योगमार्गरताः शिष्याः, योगेन एव मुक्ताः भवन्ति।
ततस्तस्मिंस्तदा कल्पे वाराहे सप्तमे प्रभोः।
पुनर्विष्णुर्महातेजाः कालो लोकप्रकालनः।
मनुर्वैवस्वतो नाम तव पुत्रो भविष्यति॥
सर्वेषु पुराणेषु योगावताराणां नामानि न समानानि सन्ति। कुत्रचित् भिन्ननाम च
प्रतिपादितमस्ति। यथा उत्तरवायवीयसंहितायां तृतीययोगाचार्यस्य नाम मदनोऽस्ति,
लिङ्गपुराणेऽपि तस्य नाम तदेवास्ति। किन्तु शतरुद्रसंहितायां तस्य नाम ..........
दमनोऽस्ति। पुनश्च शतरुद्रसंहितायां दशम-योगाचार्यस्य नामोल्लेखो नास्ति।
वायवीयसंहितायां तस्य नाम उग्रः तथा लिङ्गपुराणे स 'मुनिः' इति उल्लिखितं वर्तते।
शतरुद्रसंहितायां सप्तविंशति-योगाचार्याणामुल्लेखो विद्यते, परन्तु वायवीयसंहितायां
तथा लिङ्गपुराणे अष्टाविंशति-योगाचार्याणामुल्लेखो अस्ति। वायुपुराणानुसारं शिवस्य
अष्टाविंशतियोगावताराः प्रतिपादिताः सन्ति।
इत्थं शैवपुराणेषु परमेश्वरशिवस्यावतारस्वरूपविषये विवरणं प्रदत्तमस्ति।
सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः सर्वव्यापिसर्वगतः परात्परः परब्रह्म शिवेति
संज्ञितः। स एव सृष्टेः मूलकारणमस्ति। मनुस्मृतौ स एव स्वयम्भू निगदितः। तद्यथा-
ततः स्वयम्भूर्भगवानव्यक्तो व्यञ्जयन्निदम्।
महाभूतादिवृत्तौजा प्रादुरासीत् तमोनुदः॥
परात्परः मूलरूपः शिवः समग्रब्रह्माण्डस्य कर्ता,
पालकः प्रशुश्चास्ति। एतादृशस्य शिवस्य विषये सम्यग् निरूपयितुं वेदादयोऽपि न
समर्थाः स्युः। भगवतः शिवस्य कृपाप्राप्त्यर्थं किञ्चित् लिखितुमुत्सहे। अतःभ्रमप्रमादादिलेखनदोषं
क्षन्तुं सुहृदयान् पाठकान् निवेदयामि। पार्वती-परमेश्वरयोः चरणारविन्देषु भूयो
भूयः प्रणम्य विरमामि