ISSN: 2456–5474 RNI No.  UPBIL/2016/68367 VOL.- VII , ISSUE- VIII September  - 2022
Innovation The Research Concept
संस्कृतवाङ्मये प्रश्नोत्तरविधिः
Paper Id :  16467   Submission Date :  2022-09-20   Acceptance Date :  2022-09-22   Publication Date :  2022-09-25
This is an open-access research paper/article distributed under the terms of the Creative Commons Attribution 4.0 International, which permits unrestricted use, distribution, and reproduction in any medium, provided the original author and source are credited.
For verification of this paper, please visit on http://www.socialresearchfoundation.com/innovation.php#8
आर् एल् नारायणसिंहः
सहाचार्यः
शिक्षाविभागः
केन्द्रीयसंस्कृतविश्वविद्यालयः
भोपालम्,भारतम्
Abstract
अयं प्रश्नोत्तरविधिः नाधुनिकः। यतः संवादकाले गुरुशिष्ययोः ज्ञाताज्ञात्रोः मध्ये संशयोत्पत्तिः तदुच्छेदश्च प्रश्नोत्तरद्वारैव प्रचलति स्म। संशयस्तु सार्वकालिकः। अतः वेदादिसमस्तसंस्कृतवाङ्मये प्रश्नोत्तरद्वारा संशयनिवारणेन सत्याः विचाराः प्रत्यपादिषत। एवं वेदेषु, उपनिषत्सु, पुराणेषु, आगमेषु, काव्येषु च ययोः कयोश्चित् प्रश्नोत्तररूपाः संवादाः अवलोक्यन्ते। उदाहरणार्थम् उपर्युक्तेषु ग्रन्थेषु विद्यमानं प्रश्नोत्तरं समासेन इत्थं समग्रहीत्।
Keywords संस्कृतवाङ्मयः, प्रश्नः, उत्तरम्, विधिः।
Introduction
'प्रच्छ' धातोः भावे नञ् प्रत्यये प्रश्न इति रूपं सिध्यति। "अविज्ञातार्थज्ञानार्थम् इच्छाप्रयोज्यवाक्ये"। " अविज्ञातप्रवचनं प्रश्न इत्यभिधीयते"। "कथनाय प्रेरणे" इत्यमरः। प्रश्नः एकं शाब्दिकमाध्यमं यद्द्वारा व्यक्तिविशेषात् समाधानमाकाङ्क्ष्यत इति 'कन्निन्द्यम्' (Cunningham) प्रश्नं परिभाषते। "मस्तिष्कं प्रबोधयितुं चिन्तनशक्तिं जागरयितुम् अवधानं रक्षितुञ्च उपयुक्तं शाब्दिकमाध्यममेव प्रश्न" इति जङ्गीर् प्रश्नं पर्यभाषत। "I keep six honest serving man They taught me all I know ; There names are what and why and when and how and where and who" -Rubyard kipling ) अर्थात् किप्लिंग महोदयस्याभिमतमस्ति यत् शिक्षणे वयं षड्भृत्यान् प्राप्तवन्तः। एभिरेव शिक्षणसदृशान्तःक्रिया साधुरूपेण प्रचलति। तेषां नामानि सन्ति- किम्, कथम्, कदा, किमर्थम्, कुत्र, कः/का /किम् इति। वस्तुतः एतैः शब्दैः एव कथं न केवलं शिक्षणे एव, अपि तु सर्वत्र जीवने व्यवहारे च सर्वं च ज्ञातुं प्रभवाम।
Objective of study
प्रश्नोत्तरविधिः नाधुनिकः। वेदादिसमस्तसंस्कृतवाङ्मये प्रश्नोत्तरद्वारा संशयनिवारणेन सत्याः विचाराः प्रत्यपादिषत।
Review of Literature

वेदे आशिक्षायै प्रश्निनं तथा च उपशिक्षायै अभिप्रश्निनम् इत्यादिभिः मन्त्रैः प्रश्नकर्तुः महत्त्वं प्रतिपादितं वर्तते। संवादसूक्तेषु प्रश्नोत्तरविधिः बहूधा आश्रितो वर्तते।

प्रायः सर्वा उपनिषदः प्रश्नोत्तरमाध्यमेनैव सन्ति सम्पूर्णं कठोपनिषद् प्रश्नोत्तरमाध्यमेनैव प्रचलति। अत्र यमः वक्ता, नचिकेताः जिज्ञासुः

पुराणेषु सम्पूर्णतया विषयः संवादरूपेणैव भवति। अत्र गुरुशिष्ययोः संवादःभक्तभगवतोः संवादादयः प्रश्नोत्तरमाध्यमेन सुष्टु प्रतिपादिताः सन्ति।

श्रीप्रश्नसंहितेति पाञ्चरात्रागमग्रन्थे स्वयं श्रीः प्रश्नान् पृच्छति श्रीमन्नारायणः उत्तरति। अस्य ग्रन्थस्य नामैव श्रीप्रश्नसंहिता इति। अत्र सम्पूर्णग्रन्थः प्रश्नोत्तरमाध्यमेनैव प्रचलति।

लौकिकसमस्तवाङ्मयस्य प्रथमग्रन्थोऽस्ति रामायणम्। वाल्मीकिना रामायणस्य प्रारम्भः एव प्रश्नोत्तरवविधिना कृतः।

संस्कृतसारस्वते मकुटेति कीर्त्यमाना श्रीमद्भगवद्गीतापि प्रश्नोत्तरविधिमाश्रित्यैव उक्तास्ति। 

कुमारसम्भवे तपश्चरणसमये पार्वत्याः समीपम् आगतः मायावटुः अभिप्रेरणपुरस्सरं कुशलप्रश्नान् पृच्छति। कालिदासः तदीयसन्दर्भ पार्वत्याः अभिप्रेरणाय प्रश्नकरणविधिम् आश्रितवान्।

Main Text

अयं प्रश्नोत्तरविधिः नाधुनिकः। यतः संवादकाले गुरुशिष्ययोः ज्ञाताज्ञात्रोः मध्ये संशयोत्पत्तिः तदुच्छेदश्च प्रश्नोत्तरद्वारैव प्रचलति स्म। संशयस्तु सार्वकालिकः। अतः वेदादिसमस्तसंस्कृतवाङ्मये प्रश्नोत्तरद्वारा संशयनिवारणेन सत्याः विचाराः प्रत्यपादिषत। एवं वेदेषुउपनिषत्सुपुराणेषुआगमेषुकाव्येषु च ययोः कयोश्चित् प्रश्नोत्तररूपाः संवादाः अवलोक्यन्ते। उदाहरणार्थम् उपर्युक्तेषु ग्रन्थेषु विद्यमानं प्रश्नोत्तरं समासेन इत्थं समग्रहीत्।

वेदेषु प्रश्नोत्तरविधिः -

शिक्षणं हि नाम जिज्ञासाशान्तिः। यत्र जिज्ञासायाः स्थानं नास्ति तत्र सिक्षणं कथं सम्भवतीति। प्रश्नवैचित्र्येण चाध्यापनमध्ययनं च मनोरञ्जकं भवितुमर्हति। वेदेषु मनोरञ्जकस्य शिक्षणस्य कामना वर्तते प्रतिपादिता मन्त्रेषु-वसोष्पते हि रमय मथ्येवास्तु मध्येवास्तु मयि श्रुतम्। (अथर्ववेदः)। शिक्षक: जागरितो भूत्वा शिष्यान् सरसं पाठयेदिति वर्तते वेदेषूल्लिखितम्- भरद्धेनूरसवच्छिश्रिये पयोऽनुबुवाणो अध्येति न स्वपन्। (ऋग्वेदः ५.४४.१३)

वेदशिक्षायां स्वीकृतमासीत् प्रश्नानां गौरवम्। वेदे आशिक्षायै प्रश्निनं तथा च उपशिक्षायै अभिप्रश्निनम् इत्यादिभिः मन्त्रैः प्रश्नकर्तुः महत्त्वं प्रतिपादितं वर्तते। यतो हि जिज्ञासायाः अभावे ज्ञानं नास्ति सम्भवतः प्रश्नानाम् आवश्यकता वर्तत एव। प्रश्नोत्तरैः शिक्षा श्रेष्ठा इति स्वीकृता वेदयुगो। वैदिकसाहित्ये प्रश्नोत्तरात्मकानि मन्त्राणि प्राप्यन्ते। तद्यथा -

कस्त्वा युनक्तिः ? सत्वा युनक्ति।

कस्मै त्वायुनक्ति ? तस्मै त्वा युनक्ति। ( यजुर्वेदः ३०/१०)

एतेषु मन्त्रेषु पूर्वार्थे प्रश्नः उत्तरार्द्ध तु उत्तरं वर्तते समाविष्टम्। अनेके एतादृशाः मन्त्राः वेदेषु वर्तन्ते यत्र केवलम् आत्मनिरीक्षणाय प्रश्नाः एव वर्तन्ते समुपस्थापिताः। यथा-

कोऽसि ? कतमोऽसि ? कस्यासि ? को नामासि। (यजुर्वेदः ७/२९)

तेषामुत्तराणि वर्तन्ते अन्वेषणीयनि पाठकैः। सृष्टिविषयकाः गभीराः प्रश्नाः विहिताः वर्तन्ते मन्त्रेषु। तद्यथा -

किं स्विदासीदधिष्टानमारम्भणं कतमस्वित् कयासीत्।

यतो भूमिं जनयन् विश्वकर्मा विद्यामौर्णोन्महिना विश्वचक्षाः ।। (यजुर्वेदः १७/१८)

एतेषां प्रश्नानाम् उत्तरगर्भोऽयं मन्त्रोऽपि ततः परं वर्तते। तद्यथा -

विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात्।

स बाहुभ्यां धमति संपतत्रैर्द्यावाभूमी जनयन्देव एकः ।। (यजुर्वेदः १७/१९)

एवं क्रमेण सुसरलैः प्रश्नैः सुललितमुत्तरं मन्त्रेषु द्रष्टव्यं वर्तते। एतस्योदाहरणमत्र प्रस्तूयते -

प्रश्नात्मकोऽयं मन्त्रः                                           उत्तरात्मकः मन्त्रः

कः स्विदेकाकी चरति                                        सूर्यस्विदेकाकी चरति

कऽउ स्विज्जायते पुनः।                                     चन्दमा जायते पुनः।

किं स्विद्धिमस्य भेषजं                                        अग्निर्हिमस्य भेषजम्

किं वावपनं महत्।।    (यजुर्वेदः २३/४५)                 भूमिरावपनं महत् । (यजुर्वेदः २३/४६)

संवादसूक्तेषु प्रश्नोत्तरविधिः बहूधा आश्रितो वर्तते यथा यमयमीसंवादे

यमः (प्रश्नः) - को अस्य वेद प्रथमस्याहः क ईं ददर्श क इह प्र वोचत्।

बृहन्मित्रस्य वरुणस्य धाम कदु ब्रव आहनो वीच्या नृन् ।।

यमी (उत्तरम्)- यमस्य मा यम्यं काम अगन्त्समाने योनौ सहशेय्याय।

जायेव पत्ये तत्वं रिरिच्यां वि चिट्टहेव रथ्येव चक्रा ।। (ऋग्वेदः १०/१०)

अपि च सरम - फणि संवादादिषुनासदीयसूक्तादिषु प्रश्नोत्तरविधिः सुष्टु आचरितः विद्यते।

उपनिषत्यु प्रश्नोत्तरविधिः

उप - समीपेनि-निश्चयेन यद् -स्थानम् इतितत्त्वज्ञानार्थं गुरोः समीपे सविनयं स्थितिः उपनिषद् इत्युच्यते। उपनिषदो हि आध्यात्मविद्यायाः स्रोतस्वरूपाः। उपनिषत्सु भारतीयतत्त्वज्ञानां सात्त्विकचिन्तनस्य प्रयासः सकलोऽपि संग्रहः समुपस्थाप्यते। उपनिषत्सु मुखत्वेन वर्णिताः विषयाः समासतः सन्ति - किं ब्रह्मक ईश्वरः जीवात्मनः किं स्वरूपम् ? जीवात्मनः किं लक्षणम् ? जीवो ब्रह्मणो भिन्नोऽभिन्नो वा ? कथं च भिन्नत्वम् अभिन्नत्वं वा ? सृष्टेः मूलरूपं किम् ? कथं जगतः प्रादुर्भावः ? कथं जगतः प्रलयः ? आध्यात्मज्ञानस्यावश्यकताअध्यात्मेन किं साध्यते ? अध्यात्मेन च कथं मोक्षावाप्तिः ? कानि च मोक्षस्य साधनानि ? निवृत्तिमार्गस्य काऽऽवश्यकता ? ज्ञानमार्गोण  किं साध्यतेब्रह्मसाक्षात्कारस्य लाभादिविषयाः प्रश्नोत्तरमाध्यमेन सुष्ठु प्रतिपादिताः विद्यन्ते।प्रायः सर्वा उपनिषदः प्रश्नोत्तरमाध्यमेनैव सन्ति स्पष्टार्थं कानिचन उदाहरणानि प्रस्तूयन्ते।

सम्पूर्णं कठोपनिषद् प्रश्नोत्तरमाध्यमेनैव प्रचलति। अत्र यमः वक्ता, नचिकेताः जिज्ञासुः। तयोः सम्भषणम् अत्र प्रश्नोत्तरमाध्यमेन प्रचलति।

यथा नचिकेताः (प्रश्नः)-   

अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृतात्कृतात्।

अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद् ।। (कठोपनिषद् २-१४)


यमः (उत्तरम्)- सर्वे वेदा यत् पदमामनन्ति

तपांसि सर्वाणि च यद् वदन्ति।

यदिच्छन्तो ब्रह्मचर्यं चरन्ति

तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत् ।। (कठोपनिषद् २-१५)

एतद्ध्येवाक्षरं ब्रह्म एतद्धेवाक्षरं परम्।

एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत्।। (कठोपनिषद् २ - १६)

सर्वापि केनोपनिषत् प्रश्नोत्तरविधिमेवाश्रित्य तिष्ठति। केनइति प्रश्नवाचकं पदम्।

केन केन इति शिष्यः जगत्कर्तुः ब्रह्मणः स्वरूपं ज्ञातुं असकृत् पृच्छति। यथा -

शिष्यस्य प्रेरकविषयः प्रश्नः -

ॐ केनेषितं पतति प्रेषितं मनः

केनप्राणाः प्रथमः प्रेति युक्तः।

केनेषितां वाचमिमां वदन्ति

चक्षुः श्रोत्रं क उ देवो युनक्ति ।। (केनोपनिषद् १-१)

उत्तरम् यथा -

श्रोत्रस्य श्रोत्रं मनसो मनोयद् -

वाचो ह वाचं स उ प्राणस्य प्राणः।

चक्षुषश्चक्षुरतिमुच्च धीराः

प्रेत्यास्माल्लोकादमृता भवन्ति ।। (केनोपनिषद् १-२)

न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः

न विद्मो न विजानीमो यथैतदनुशिष्यात्।

अन्यदेव तद्विदितादतो अविदितादधि

इति शुश्रुम पूर्वेषां ये नस्तद्वयाचचक्षिरे।। (केनोपनिषद् १-३)

उपनिषत्सु प्रश्ननाम्नी अपि कश्चित् उपनिषत् अस्ति। तत्र तत्त्वसम्बद्धाः षट्प्रश्नाः वर्तन्ते। वैदिककालेऽपि प्रश्नोत्तरविधेः अत्यन्तं प्रामुख्यमासीदिति ज्ञायते एतत् प्रश्नोपनिषद्वरा। एकमुदाररणं दिङ्मात्रं प्रस्तूयते। यथा

प्रश्न: - अथ कबन्धी कात्यायन उपेत्य पप्रच्छ।

भगवन् कृतो ह वा इमाः प्रजाः प्रजायन्त इति।। (प्रश्नोपनिषद् १-३)

उत्तरम् -

तस्मै स होवाच प्रजाकामो वै प्रजापतिः स तपोतप्यत सं तपस्तप्त्वा स मिथुनमुत्पादयते। रयिं च प्राणं चेत्येतो मे बहूधा प्रजाः करिष्यत इति।।  (प्रश्नोपनिषद् १-४)

पुराणेषु प्रश्नोत्तरविधिः

सर्वाण्यपि पुराणानि प्रश्नोत्तरविधिमाश्रित्यैव तिष्ठन्ति। पुराणेषु सम्पूर्णतया विषयः संवादरूपेणैव भवति। अत्र गुरुशिष्ययोः संवादःभक्तभगवतोः संवादादयः प्रश्नोत्तरमाध्यमेन सुष्टु प्रतिपादिताः सन्ति। पुराणेषु प्रशोत्तरविधेः उदाहरणानां प्रदर्शनस्यावश्यकता एव नास्ति। यतो हि पुराणेषु सर्वत्र प्रश्नोत्तरविधिः एव आश्रीयते। परं दिङ्मात्ररूपेण अनुसन्धात्रा कानिचित् उदाहरणानि प्रस्तूयन्ते।

श्रीकूर्ममहापुराणे वर्णाश्रमक्रमवर्णनसन्दर्भे नारदादिऋषयः सन्देहनिवारणार्थं कूर्मावतारं (कूर्म) पृच्छन्ति। कूर्मः सन्देहनिवारणं करोति।

ऋषयः ऊचुः (प्रश्नः) -

वर्णा भगवतोद्दिष्टाश्चत्वारोऽप्याश्रमास्तथा।

इदानीं क्रममस्माकमाश्रमाणां वद प्रभो।। (श्रीकूर्ममहापुराणाम् ३-१)

कूर्म उवाच (उत्तरम्) -

ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा।

क्रमेणैवाश्रमाः प्रोक्ताः कारणादन्यथा भवेत्।। (श्रीकूर्ममहापुराणाम् ३-२)

एतादृशरीत्या तृतीयाऽध्यायस्यान्तं कूर्मस्य समाधानमस्ति। वराहपुराणे चतुर्थेऽध्याये धरणी - वराहसंवादः प्रश्नोत्तरविधिमाध्यमेनास्ति।

यथा -

धरण्युवाच (प्रश्नः) -

योऽसौ नारायणो देवः परमात्मा सनातनः ।

भगवन् सर्वभावेन उताहो नेति शंस मे।। (वराहपुराणम -४-१)

श्रीवराह उवाच (उत्तरम्) -

मत्स्यः कूर्मो वराहश्च नरसिंहोऽथ वामनः।

रामो रामश्च कृष्णश्च बुद्धः कल्की च ते दश।। (वराहपुराणम् ४-२)

इत्येताः कथितास्तस्य मूर्तयो भूतधारिणि।

दर्शनं प्राप्तुमिच्छूनां सोपानानीव शोभने।। (वराहपुराणम् ४-३)

एवं रीत्या दशम श्लोकादारभ्य षड्विंशति अध्यायस्यान्तं उत्तरमस्ति।

सर्वेषु अपि पुराणेषु प्रश्नोत्तरसत्त्वात् सर्वेषामपि पुराणानामपि उदाहणानि दीयेरन्। परं  केषाञ्चन प्रामुखानां पुराणानामुदाहरणानि प्रादिषत।

आगमग्रन्थेषु प्रश्नोत्तरविधिः

आगमशास्त्रग्रन्थाः सर्वेऽपि प्रश्नोत्तरमुखेनैव प्रचलन्ति। प्रशनोत्तरमतिरिच्य ऐषु ग्रन्थेषु नान्यत् किमपि दृश्यते भूचयनकर्षणादारभ्यपूजायागादिक्रतुपर्यन्तं सर्वम् आगमशास्त्रग्रन्थेषु उच्यते। अत्र एतावद्विषयकसंशयच्छेदनार्थम् आगमग्रन्थाः उद्भूताः। संशयप्रच्छनं संशयनिवारणं प्रश्नोतरमाध्यमेनैव भवति खलु। अतः आगमशास्त्रग्रन्थाः प्रश्नोत्तरविधिमाध्यमेनैव भवन्ति। अत्र कतिचन उदाहरणानि प्रस्तूयन्ते -

श्रीप्रश्नसंहितेति पाञ्चरात्रागमग्रन्थे स्वयं श्रीः प्रश्नान् पृच्छति श्रीमन्नारायणः उत्तरति। अस्य ग्रन्थस्य नामैव श्रीप्रश्नसंहिता इति। अत्र सम्पूर्णग्रन्थः प्रश्नोत्तरमाध्यमेनैव प्रचलति।

यथा - श्रीः (प्रश्नः)

भगवान् योगतत्त्वाख्यं ज्ञानपूर्ण वदस्व मे। (श्रीप्रश्नसंहिता ३-१- प्रथमपादः)

भगवान् (उत्तरम्)

सर्वे देवा महर्षयो मुनयः पशवस्तथा।। (श्रीप्रश्नसंहिता ३-१- द्वितीयपादः)

मन्मायया निबद्धास्ते तन्निकृन्तनमद्भूतम्।

योगसारं प्रवक्ष्यामि ज्ञानतत्त्वसमन्वितम्।। ( श्रीप्रश्नसंहिता ३-२)

जन्ममृत्युजराव्याधिनाशनं मृत्युतारकम्।

नानामार्गश्च दुष्प्रापं कैवल्यं परमं पदम्।। (श्रीप्रश्नसंहिता ३-३)

नारदीयसंहितायाम् आराधनाविषयप्रतिपादनार्थं नारदं प्रति गौतमस्याभ्यर्थना

नारदस्य उत्तरं च यथा -

गौतमः (प्रश्नः) -

आराधनं सुरेशस्य वासुदेवस्य मे वद।

तथान्येषां च देवानां काम्यानां च समासतः ।। (नारदीयंहिता २-१)

नारदः (उत्तरम्) -

येन सिद्धिं व्रजेन्मन्त्री दीक्षितो वैष्णवो नरः।

आराधनं प्रवक्ष्यामि निःसन्दिग्धमविस्तृतम् ।। (नारदीयंहिता २-२)

एतावद्रीत्या द्वितीयेऽध्यायस्य समाप्तिपर्यन्तम् उत्तरमस्ति।

न केवलं श्लोकरूपेणैव अपि च गद्यरूपेणापि प्रश्नोत्तरविधिः मरीचिकृते

विमानार्चनकल्पे आश्रितः विद्यते। यथा -

श्रीमरीचिंप्रतिऋषिप्रश्न: -

श्रीमरीचिं महामुनिं स्वशिष्याऽर्पितकुशाऽऽसने समासीनं सर्वज्ञं जितेन्द्रियं शुद्धं नानालोकनिवासिनो धर्मसंसक्ता ऋषयः समाऽऽगम्यआनम्य, "भगवन् केनमार्गेण कैर्मन्त्रैः कं देवमर्चयन्तः कान् लोकान् गमिष्यन्ति" इत्यूचुः। (विमानार्चनकल्पः १-१ पटलः)

श्रीमरीचिरुवाच (उत्तरम्) -

सुप्रसन्नं परमात्मानं नारायणं ध्यात्वा अभिवन्द्य श्रुत्यनुकूलेन मार्गेण चतुर्वेदोद्भवैर्मन्त्रैः तमर्चयन्तः श्रुतिभिरभिहितं शाश्वतम् अतीन्द्रियं परात्परतरं देवैरनभिलक्ष्यं तद्विष्णोः परमपदं गच्छेयुः इति। (विमानार्चनकल्पः -१-१ पटलः)

एवं रीत्या शैववैष्णवशाक्तागमग्रन्थाः सर्वेऽपि प्रश्नोत्तरमवलम्ब्यैव लिखिताः सन्ति।

इतिहासेषु प्रश्नोत्तरविधिः

रामायणे प्रशनोत्तरविधिः

लौकिकसमस्तवाङ्मयस्य प्रथमग्रन्थोऽस्ति रामायणम्। वाल्मीकिना रामायणस्य प्रारम्भः एव प्रश्नोत्तरवविधिना कृतः। यथा

वाल्मीकिः उवाच (प्रश्नः)

तपः स्वाध्यायनिरतं तपस्वी वाग्विदां वरम्।

नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ।। (रामायणम् -१-१-१)

कोन्वस्मिन्साम्प्रतं लोके गुणवान्कश्च वीर्यवान्।

धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः।। (रामायणम् १-१-२)

आत्मवान्को जितक्रोधो द्युतिमान्कोऽनसूयकः।

कस्य बिभ्यति देवाश्च जातरोषस्य संयुगो।। (रामायणम् १-१-३)

एवं षट्श्लोकात्मकः प्रश्नाः पृष्टाः वाल्मीकिना।

नारद उवाच (उत्तरम्)

बहवो दुर्लभाश्चैव ये त्वया कीर्तिताः गुणाः।

मुनो वक्ष्याम्यहं बुद्ध्या तैर्युक्तः श्रूयतां नरः ।। (रामायणम् १-१-७)

इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः।

नियतात्मामहावीर्यो द्युतिमान्धृतिमान्वशी ।। (रामायणम् -१-१-८)

बुद्धिमान्नीतिमान्वाग्मी श्रीमान्शत्रुनिबर्हणः।

विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ।। (रामायणम् १-१-९)

एवं रीत्या बहुभिः श्लोकै उत्तरं दत्तं नारदेन।

रामायणे अयोध्याकाण्डे शततमे सर्गे रामवनवाससमये समागतं भरतमुद्दिश्य कुशलप्रश्नानन्तरं राज्यपालनादिकविषयान् पृच्छति। अत्र 'एवं करोति खलु' 'एवं करोति खलुइति प्रश्नेव कृत्याकृत्यकर्माणि बोधयति भरतं रामः। एतस्य शततम सर्गस्य तदर्थमेव कच्चित्सर्गः इत्यपि नाम। उदाहरणार्थम्

रामोवाच -      कच्चिन्निद्रावशं नैषीः कच्चित्काले प्रबुध्यसे।

कच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम् ।। (रामायणम् २-१००-१७)

कच्चिन्मत्रयसे नैकः कच्चिन्न बहुभिः सह।

कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ।। (रामायणम् २-१००-१८)

एतावद्रीत्या कच्चित्सर्गस्य तृतीयश्लोकादारभ्य प्रश्नोत्तरम् अध्यायस्य अत्त्यपर्यन्तं चलति।

महाभारते प्रश्नोत्तरविधिः -

भारतं पञ्चमो वेदः। महाभारतेऽपि प्रश्नोत्तरविधिः बहुत्राश्रितः। अत्र कानिचन उदाहरणानि प्रस्तूयन्ते।

अरण्यपर्वणि भीमहनुमतोः संवादे भीमः तत्त्वजिज्ञासुः सन् चिरंजीविनं हनुमन्तं पृच्छति। हनुमान् उत्तरति। यथा

भीम उवाच (प्रश्नः)

युगसंख्यां समाचक्ष्व आचारं च युगे युगे।

धर्मकामार्थभावांश्च वर्मवीर्थं भवाभवौ।। (महाभारतम् ३-१४८-९)

हनूमानुवाच (उत्तरम्) -

कृतं नाम युगं तात यत्र धर्मः सनातनः।

कृतमेव न कर्तव्यं तस्मिन्काले युगोत्तमे।। (महाभारतम् ३-१४८-१०)

न तत्र धर्माः सीदन्ति न क्षीयन्ते च वै प्रजाः।

ततः कृतयुगं नाम कालेन गुणतां गतम् ।। (महाभारतम् ३-१४८-४)

एतावदीत्या नवत्रिंशत् श्लोकतः उत्तरमुक्तं हनुमता।

महाभारते भगवद्गीतानन्तरं तावदुत्कृष्टता अस्ति यक्षप्रश्नानाम्। अत्र यक्षः युधिष्ठिरस्य ज्ञानपरीक्षणार्थं प्रश्नान् पृच्छति। यथा

यक्ष उवाच (प्रश्नः) -

धन्यानामुत्तमं किंस्विद् धनानां स्यात् किमुत्तरम्।

लाभानामुत्तमं किं स्यात् सुखानां स्यात् किमुत्तरम् ।।  (महाभारतम् ३-३१३-७३)

युधिष्ठिर उवाच (उत्तरम्) -

धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम्।

लाभानां श्रेय आरोग्यं सुखानां तुष्टिरुत्तमा।। (महाभारतम् ३-३१३ -७४)

यक्ष उवाच (प्रश्नः)

कश्च धर्मः परोलोके कश्च धर्मः सदाफलः।

किं नयम्य न शोचन्ति कैश्च संधिर्न जीर्यते।। (महाभारतम् ३-३१३-७५)

युधिष्ठिर उवाच (उत्तरम्)

आनृशंस्यं परो धर्मस्त्रयीधर्मः सदाफलः।

मनो यम्य न शोचन्ति सन्धिः सद्भिर्न जीर्यते।। (महाभारतम् ३-३१३-७६)

यक्ष उवाच (प्रश्नः)

किं नु हित्वा प्रियो भवति किं नु हित्वा न शोचति।

किं नु हित्वार्थवान् भवति किं नु हित्वा सुखी भवेत्।।  (महाभारतम् ३-३१३-७८)

युधिष्ठिर उवाच (उत्तरम्)

मनं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति।

कामं हित्वार्थवान् भवति लोभं हित्वा सुखी भवेत् ।। (महाभारतम् ३-३१३-७७)

एवं रीत्या त्रयोदशोत्तरत्रिशततमाध्याये सम्पूर्णं यक्ष प्रश्नाः-युधिष्ठिर उत्तराण्येव भवन्ति। अत्र भारतीयतत्त्वज्ञानं सुष्टु प्रतिपादितमस्ति प्रश्नोत्तरमाध्यमेन।

सभापर्वणि पञ्चमेऽध्याये युधिष्ठिरसभामागतवान् नारदः प्रश्नरूपेणैव राज्यपालनंधार्मिककार्याणि वा करोति न वा इति पृष्ट्वेव व्यङ्ग्यरूपेण धर्मं वदति। अत्र प्रश्ने एव समाधानमपि व्यङ्यरूपेण भवति। उदाररणार्यम् -

नारद उवाच- कच्चिदर्थाश्च कल्पन्ते धर्मे च रमते मनः.

सुखानि चानुभूयन्ते मनश्च न विहन्यते।। (महाभारतम् २.५-७)

कञ्चिदाचरितां पूर्वैर्नरदेव पितामहे।

वर्तसे वृत्तिमक्षीणां धर्मार्थसरितां नृषु ।। (महाभारतम् २-५-८)

एवं रीत्या पञ्चमेऽध्याये पञ्चमसर्ग सम्पूर्णं प्रश्नाः एव भवन्ति। तदर्थं एतस्य सर्गस्य कच्चित् सर्गः इति नामापि अस्ति।

संस्कृतसारस्वते मकुटेति कीर्त्यमाना श्रीमद्भगवद्गीतापि प्रश्नोत्तरविधिमाश्रित्यैव उक्तास्ति। यथा

अर्जुन उवाच (प्रश्नः) -

स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव।

स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्। (भगवद्गीता -२-५४)

श्रीभगवानुवाच (उत्तरम्) -

प्रजहाति यदा कामान् सर्वन्पार्थ मनोगतान्।

आत्मन्येवात्मनो तुण्टः स्थितप्रज्ञस्तदोच्यते।। (भगवद्गीता २-५५)

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः।

वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते।। (भगवद्गीता २-५६)

एवं अर्जुनेन पृष्टप्रश्नस्य उत्तररूपेण स्थितप्रज्ञस्य लक्षणं समासेन विव्रियते भगवता।

साहित्ये प्रश्नोत्तरविधिः

समष्टिः सर्वशास्त्राणां साहित्यमिति कथ्यते। वैदेषुपुराणेषु यदुक्तमस्ति तदेव कान्तेव सरसतापादनेनाभिमुखीकृत्य रामादिवद्वर्तितव्यं न रावणादिवदिति काव्यं बोधयति। तदर्थं साहित्यं कान्ता सम्मितमिति कथ्यते। अत्रापि प्रश्नोत्तरविधिमाध्यमेन विविधक्लिष्टविषयाः सरलतया उक्ताः। अत्र दिङ्मात्ररूपेण कतिचन उदाहरणानि प्रस्तूयन्ते।

कुमारसम्भवे तपश्चरणसमये पार्वत्याः समीपम् आगतः मायावटुः अभिप्रेरणपुरस्सरं कुशलप्रश्नान् पृच्छति। कालिदासः तदीयसन्दर्भ पार्वत्याः अभिप्रेरणाय प्रश्नकरणविधिम् आश्रितवान्। यथा -

विधिप्रयुक्तां परिगृह्य सत्क्रियां परिश्रमं नाम विनीय च क्षणम्।

उमां स पश्यन्नृजुनैव चक्षुषा प्रचक्रमे वक्तुमनुज्झितक्रमः ।।

(कुमारसम्भवम् १५-३४)

अपि क्रियार्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते।

अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलुधर्मसाधनम्।।

(कुमारसंभवम् ५-३५)

अत्र प्रश्नकरणप्रविधिः अस्ति। यथा द्वयोः मेलनसमये कथमस्तिकिं करोति इति प्रश्नान् एव प्रथमं पृच्छति तथैव पार्वत्याः सह भाषणप्रारम्भे प्रश्नैः एव वटुः अभिप्रेरणं कृतवान् इति स्पष्टम्।

रघुवंशमहाकाव्ये पञ्चमसर्गे रघु-कौत्सयोः संवादः प्रश्नोत्तरमाध्यमेन प्रचलति। यथा

रघोः प्रश्ना:

अप्यग्रणीर्मन्त्रकृतामृषीणां कुशाग्रबुद्धे! कुशली गुरुस्ते।

यतस्त्वया ज्ञानमशेषमाप्तं लोकेन चैतन्यमिवोष्णरश्मेः ।।

(रघुवंशमहाकाव्यम् -५-४)

एवं रीत्या एकादशश्लोकपर्यन्तं प्रश्नान् पृच्छति रघुः।

कौत्सस्य उत्तराणि -

भक्तिः प्रतीक्ष्येषु कुलोचिता ते पूर्वान्महाभाग ! तयातिशेषे।

व्यतीतकालस्त्वहमभ्युपेतस्त्वामथिभावादिति मे विषादः ।। (रघुवंशम् ५-१४)

एवं द्वाविंशतितमश्लोकपर्यन्तं कौत्सस्य उत्तरमस्ति।

किरातार्जुनीयमहाकाव्ये द्वादशसर्गे शङ्कर-मुनीनां तत्त्वसंवादः प्रश्नोत्तरमुखेन

प्रचलति। यथा -

मुनयः (प्रश्नः) -            किमुपेक्षसे कथय नाथ न तव विदितं न किञ्चन।

त्रातुमलमभयदार्हसि नस्त्वयि मा स्म शासति भवपराभवः ।।

(किरातार्जुनीयम् १२-३१)

शङ्करः (उत्तरम्) -        बदरीतपोवननिवासनिरतमवगतमान्यथा।

धातुरुदयनिधने जगतां नरमंशमादिपुरुषस्य गां गतम्।।

(किरातार्जुनीयम् - १२-३३)

एवं प्रकारेण शङ्करः बहुषु श्लोकेषु उत्तरमुक्तवान्। 

Conclusion
एवम्प्रकारेण वेदादिसमस्तसंस्कृतवाङ्मये प्रश्नोत्तरं दरीदृश्यते। प्रश्नोत्तरद्वारा ब्रह्मपराः, लौकिकजीवनोन्नयनसाधकाः, कर्मबोधकाः चेत्यादयः विचाराः प्रास्ताविषत। सर्वत्रापि कश्चन प्रष्टा संशयान् पृच्छति, कश्चन ज्ञाता लोकोपकाराय प्रष्टुः संशयोच्छेदाय च उत्तरति। एवं ग्रन्थेषु निहितं प्रश्नोत्तरमेव आधुनिकाः शिक्षाशास्त्रज्ञाः प्रश्नोत्तरविधिरिति आमनन्ति। अतः अधुनातनकालेऽपि प्रश्नोत्तरमाध्यमेन पाठनं क्रियते इति ते अभिप्रयन्ति।
References
1. डॉ. अनन्त सदाशिव अलतेकर, (१९५५) प्राचीन भारतीय शिक्षणपद्धति, मांदिकशोर एण्ड ब्रदर्स, बनारस। 2. उमाशंकर श्रीवास्तव, (१९६७) भाषा- शिक्षण विधि, हिन्दी प्रचारक पुस्तकालय, वारणासी । 3. ऋग्वेद संहिता, (१९९८) श्री अरबिन्दो कपालि शास्त्रि इन्टिट्यूट अफ वेदिक कल्चर, बेङ्गलूर। 4. अथर्ववेदसंहिता, (१९८९) कृष्णदास अकादमी, वाराणसी। 5. डॉ. कानाल नलचक्रनर्ती, (१९९६) संस्कृताध्यापनम्, वेंकटाम्बा पब्लिकेशन्स्, तिरुपतिः। 6. कालिदासः, (२००१) कुमारसम्भवम् चौखम्बा विद्याभवन, वाराणसी। 7. कालिदासः, (२००१) रघुवंशमहाकाव्यम्, चौखम्बा सुरभारती प्रकाशन, वाराणसी। 8. गुरसरन्दसत्यगी - इतिहासशिक्षण (१९९३) विनोद पुरतकमन्दिर, आगरा। 9. गोपालानन्दस्वामी, ईशादिदशोपनिषद्भाष्यम्, (१९३२) निर्णयसागरमुद्रणालयः, मुम्बई। 10. डॉ.दुर्गावती उपाध्यय, (१९९१) विगत (उन्नीसवीं) शताब्दी में संस्कृत शिक्षा की स्थिति, हिन्दी प्रचारक पुस्तकालय, वारणासी। 11. नारदीयसंहिता, (२००१) राष्ट्रियसंस्कृतविद्यापीठम्, तिरुपतिः। 12. पाद्मसंहिता, (१९८२) पाञ्चरात्र परिशोधना परिषत्, मदारास्। 13. डॉ. मदनमोहनझा, (२००२) शिक्षणाभ्यासः, श्रुतीप्रकाशनम्, पुरी। 14. मरीचिमहर्षिः, (1998) विमानार्चनकल्पः - T.T.D. Religious Publication Series No.488, Tirupati. 15. यजुर्वेदः, (२००३) सार्वदेशिक आर्य प्रतिनिधि सभा, नई दिली। 16. डॉ. रामशकल पाण्डेयः, (२००३) संस्कृतशिक्षणम् , विनोदपुस्तकमन्दिर, आगरा। 17. रघुनाथ सफाया, (१९९७) ‘संस्कृतशिक्षणम्’, हरियाणा साहित्य अकादमी, चण्डीगढ। 18. डॉ. लोकमान्यमिश्रः , (२००४) पुरातनी शिक्षा , मृगाक्षी प्रकाशनम्, लखनऊ। 19. वाल्मीकि रामायणम् , (१९९२) नाग् पब्लिषर्स, दिल्ली। 20. व्यासः, (१९६७) महाभारतम् , भण्डारकर ओरियन्टल रीसर्च इन्स्टिट्यूट, पूणे। 21. व्यासः , (१९८३) श्रीकूर्ममहापुराणम् , नाग् पब्लिशर्स, दिल्ली। 22. व्यासः, (१९८४) श्रीमत्स्यमहापुराणम्, महरचान्दलक्ष्मणदास्, नईदिल्ली। 23. व्यासः, (१९८७) श्रीमद्भागवतमहापुराणम् , नाग पब्लिशर्स, दिल्ली। 24. व्यासः, (१९८६) स्कन्दमहापुराणम् , नाग पब्लिषर्स, दिल्ली। 25. डॉ. बी. एल वत्स, (२००३) संस्कृतशिक्षणम् , विनोदपुस्तकमन्दिर्,आगरा। 26. डॉ. (श्रीमती) सन्तोषमित्तलः, (२००६) संस्कृतशिक्षणम् , नवचेतना पब्लिकेशन्स, जयपुरम्।