|
|||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
संस्कृतकाव्याधिगमे सङ्गणकसहकृतानुदेशनस्य प्रभावः | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
Paper Id :
17021 Submission Date :
2023-01-11 Acceptance Date :
2023-01-21 Publication Date :
2023-01-23
This is an open-access research paper/article distributed under the terms of the Creative Commons Attribution 4.0 International, which permits unrestricted use, distribution, and reproduction in any medium, provided the original author and source are credited. For verification of this paper, please visit on
http://www.socialresearchfoundation.com/innovation.php#8
|
|||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
| |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
सारांश |
संस्कृतेराश्रयीभूतस्य संस्कृतस्य रक्षणं प्रत्येकं संस्कृतज्ञस्य आद्यं कर्तव्यं भवति। विशेषेण संस्कृताध्यापकाः तत्संरक्षणार्थं यततेरन्। यतः पाठनद्वारा छात्राः संस्कृतं जानन्ति, ज्ञात्वा संस्कृतं ते रक्षन्ति। एवं पठनपाठनपरिपाट्या एव संस्कृतस्य संरक्षणं भवितुमर्हति। परं व्यवहारपथात् निर्गतस्य संस्कृतस्य पाठनं नातीव सुलभम्। यतः आधुनिकेऽस्मिन्वैज्ञानिके युगे विज्ञानमार्गे जिगमिषवः छात्राः संस्कृतं न पिपठिषन्ति। अस्य कारणं भवति संस्कृतपाठने वैज्ञानिकाविष्काराणाम् उपयोगाभावः। अधुनापि नैके अध्यापकाः पुरातनविधिमेव अनुसरन्तः सन्ति। अन्येषां विज्ञानादिविषयाणां पाठने तु अध्यापकाः वैज्ञानिकोपकरणानां उपयोगञ्च क्रियन्ते। अतः विज्ञानादिविषयमेव अधिकछात्राः अधिजिगांसन्ते। तस्मात् संस्कृतपाठनेऽपि वैज्ञानिकप्राविधिकोपकरणानां प्रयोगः बोभूयेत, येन छात्राः संस्कृताध्ययने रुचिं प्रदर्शयेयुः।
|
||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
सारांश का अंग्रेज़ी अनुवाद | It is the first duty of every Sanskrit scholar to protect Sanskrit, who is dependent on Sanskrit. Sanskrit teachers in particular should strive to preserve it. Because through teaching, students learn Sanskrit, and by knowing Sanskrit, they protect it. Thus, Sanskrit can be preserved only through the system of reading and teaching. However, teaching Sanskrit that has gone out of the way of practice is not very easy. Because in this modern scientific age, students who want to go on the path of science will not study Sanskrit. This is due to the lack of use of scientific inventions in teaching Sanskrit. Many teachers are still following the old methods. In teaching other subjects such as science, teachers also use scientific equipment. Therefore, more students are mastering science and other subjects. Therefore, the use of scientific and technical tools should also be used in teaching Sanskrit so that students can show interest in learning Sanskrit. | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
मुख्य शब्द | संस्कृतम्, काव्याधिगमः, सङ्गणकसहकृतानुदेशनम्। | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
मुख्य शब्द का अंग्रेज़ी अनुवाद | Sanskrit, Learning of Sanskrit Poetry, Computer Assisted Instruction | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
प्रस्तावना |
प्रायशः सर्वेऽपि संस्कृताध्यापकाः सांप्रदायिकरीत्या एव संस्कृतं पठितवन्तो भवन्ति। ते संस्कृतपाठने वैज्ञानिकत्वमानेतुं न तथा उत्सहन्ते। किन्तु कालेऽस्मिन् संस्कृतपरिरक्षणाय वैज्ञानिकसृतेरनुसरणम् अत्यावश्यकं वर्तते। संस्कृतक्षेत्रे नूतनविधीनाम् आनयनात्प्राक् तदीयप्रभावविषये संस्कृतज्ञाः कूपद् चिन्तयेयुः अनुसन्देधीयेरञ्च। तादृशनूतनविधिषु अन्यतमः सङ्गणकसहकृतानुदेशनविधिः। पूर्वोक्तरीत्या अस्य विधेः संस्कृतशिक्षणे अयोजनात्प्राक् सूपद् अनुसन्धानं अपेक्ष्यते। एतत्सर्वं मनसि निधाय अयं अनुसन्धाता अमुं विषयं अनुसमधित्सत्।
|
||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
अध्ययन का उद्देश्य | काव्याधिगमे सङ्गणकसहकृतानुदेशनस्य प्रभावपरीक्षणम् अध्ययनस्यास्य प्रमुखमुद्देश्यं भवति। श्लोकावगाहन - श्लोकपूरण - श्लोकसस्वरवाचन - तात्पर्यग्रहणाख्यघटकेषु सङ्गणकसहकृतानुदेशनस्य (CAI) प्रभावं परीक्षितुम् अनुसन्धाता ऐच्छत्। तत्र इमानि उद्देश्यानि स्वीकृतानि-
1. श्लोकावगाहनकौशलसम्पादने सङ्गणकसहकृतनुदेशनस्य प्रभावपरीक्षणम्।
2. श्लोकपूरणकौशलसम्पादने सङ्गणकसहकृतानुदेशनस्य प्रभावप्ररीक्षणम्।
3. श्लोकतात्पर्यग्रहणकौशलसम्पादने सङ्गणकसहकृतानुदेशनस्य प्रभाव-परीक्षणम्।
4. श्लोकसस्वरवाचनकौशलसम्पादने सङ्गणकसहकृतानुदेशनस्य प्रभावपरीक्षणम्। |
||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
साहित्यावलोकन | C.
Chapelle, M.H. Lom, J. C. Richards (2001) Computer Applications in Second
Language Acquisition. केषुचित् देशेषु आङ्ग्लभाषा द्वितीयभाषात्वेन
परिगण्यते । तादृशदेशेषु आङ्ग्लभाषा पाठनाय के विधयः उत्तमाः इत्यंशं ज्ञातुं एते
अनुसन्धातारः अध्ययनं अकुर्वन् । ते भाषाशिक्षणे सङ्गणकयन्त्रम् अवश्यं भवेदिति
निरकर्षन्। Larry.
A, “The Effectiveness of Computer Assisted Instruction." अयं कक्षायां गणकयन्त्रस्य प्रभावविषये बृशं
अनुसमदधात् । सः छात्रावगतिसम्पादने गणकयन्त्रं तत्सहकृतानुदेशनञ्च महान्तं
प्रभावं जनयतीति व्यजानात् । James
H. Soper, “Computer Assisted Instruction in Foreign Languages.' वैदेशिकभाषाणां पाठने नूतनाविष्कारभूतस्य गणकयन्त्रस्य प्रभावः अनेन अनुसमधायि
। तथैव गणकयन्त्रसहकृतानुदेशनं छात्राणां बुद्धिप्रगत्यै सहकरोतीति तेन निरकर्षि । P.
Suppers, Current Trends in Computer Assisted Instruction. संगणकयन्त्रं भाषाशिक्षणे वैयक्तिकावधानसम्पादनार्थं
छात्राणाम् अवबोधशक्तिवर्धनार्थं च प्रभावि भवतीति अनेकैः अनुसहितम् । अयम्
अस्मिन् गणकयन्त्रसहकृतानुदेशने नूतनान् प्रकारान् अध्यगीष्ट स्वाध्ययने
गणकयन्त्रस्य महान्तं प्रभावं अपश्यच्च । Larkin,
Computer Assisted Instruction and Intelligent Tutoring Systems.
अयं नैकेषां शैक्षिकानुसन्धानानां सङ्ग्रहात्मकः
ग्रन्थः । अत्र भूयांसि गणकयन्त्र- सहकृतानुदेशनविषयकानि अध्ययनानि समुपलभ्यन्ते ।
तत्र सर्वत्रापि गणकयन्त्रं भाषापाठने स्वप्रभावं जनितवदिति प्रतिपादितं वर्तते । |
||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
सामग्री और क्रियाविधि | अध्ययनमिदं प्रयोगात्मकविधिना अकारि।
अध्ययनरचना (Design of Study)-
अध्ययनेऽस्मिन् प्राक्परीक्षानन्तरपरीक्षासमान्तरसमूहप्रायोगिकरचना (pre text post text parallel group experimental design) उपयुक्ता। ऐदम्प्राथम्येनात्र प्रयोगात्मक- नियन्त्रितसमूहयोः परीक्षा विहिता। परीक्षया अनया द्वयोः समूहयोः काव्याधिगमे श्लोकावगाहन-श्लोकपूरण-तात्पर्यावबोधन सस्वरवचन कौशलानि परीक्षितानि। ततश्च सङ्गणकसहकृतानुदेशनपूर्वकं प्रयोगात्मकसमूहे काव्यमध्यापितम्। नियन्त्रितसमूहे तु सङ्गणकसहकृतानुदेशनं विना शिक्षितम्। इत्थमध्यापनानन्तरं द्वावपि समूहौ पुनः परीक्षितौ। अनयानन्तरपरीक्षया समूहद्वयस्य काव्याधिगमः पुनः परीक्षितः। |
||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
न्यादर्ष |
अध्ययनेऽस्मिन्प्रयोगात्मकसमूहे पञ्चदश, नियन्त्रितसमूहे पञ्चदशेति
क्रमेण त्रिंशत् छात्राः प्रतिदर्शत्वेन सङ्गृहीताः। प्रत्येकस्मिन् समूहे
दशबालिकाः पञ्चबालकाः चिताः। इमे च भोपालस्थ केन्द्रीयसंस्कृतविश्वविद्यालये प्राक्शास्त्रिप्रथमवर्षमधीयानाः
विद्यार्थिनीविद्यार्थिनः। एषां वयः 16-17 यावत् व्याप्तम्। अत्र प्रतिदर्शचयने सप्रयोजनप्रतिचयनपद्धति: (Purposive Sampling Method) अनुप्रयुक्ता। प्रतिदर्शानां चयनानन्तरम् इमे यादृच्छिकप्रतिचयनविधिना (Random
Sampling Method) द्वयोः प्रयोगात्मक - नियन्त्रितसमूहयोः विभक्ताः। |
||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
प्रयुक्त उपकरण | अत्र द्वयोः समूहयोः काव्याधिगमविकासस्य मूल्याङ्कनार्थं विभिन्नप्रश्नयुक्ते मौखिक- लिखितपरीक्षे उपकरणत्वेन उपयुक्ते। प्रयोगप्रक्रिया (Experimental Procedure) 1. प्राक्प्रतिपादनदशा (Pre-treatment stage)- प्रतिपादनात्पूर्वं समेऽपि प्रतिदर्शाः पञ्च श्लोकान् अध्यगीषत। 2. प्राक्प्रतिपादनमापनानि (Pre-treatment measures) प्रतिपादनात्पूर्वं प्रायोगिकनियन्त्रितसमूहयोः प्राक्परीक्षा विहिता। अनया सर्वेषां प्रतिदर्शानां संस्कृतज्ञानं परीक्षितम्। 3. प्रतिपादनदशा (Treatment stage) अत्र प्रायोगिकसमूहे सङ्गणकसहकृतानुदेशनपूर्वकं काव्यमध्यापितम्। नियन्त्रितसमूहे तु सङ्गणकसहकृतानुदेशनमन्तरैव काव्यं शिक्षितम्। 4. प्रतिपादनोत्तरमापनानि (Post treatment measures)- पूर्वोक्तदिशा काव्याध्यापनानन्तरं समेषां दशप्रतिदर्शानाम् अनन्तरपरीक्षा विहिता। प्राक्परीक्षाया परीक्षिताः विषया एवात्र परीक्षिताः। |
||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
विश्लेषण | परीक्षाद्वाराप्राप्ताः दत्तांशाः
साङ्ख्यिकीयपरीक्षाभिः विश्लिष्टाः। 1. ऐदम्प्राथम्येन समेषां दत्तांशानां मध्यमानप्रामाणिकविचलनानि गणितानि। 2. काव्याधिगमे सङ्गणकसहकृतानुदेशनस्य परीक्षणार्थं समूहद्वयस्य
प्रागनन्तरपरीक्षयोः प्राप्तानां मध्यमानगणनानां भेदोऽन्विष्टः। एतदर्थमत्र t परीक्षोपयुक्ता। सारिणी - 1 श्लोकावगाहनकौशलविकासे नियन्त्रितप्रायोगिकसमूहाभ्याम्
अनन्तरपरीक्षायां प्राप्तानि मध्यमानप्रामाणिकविचलनं t मूल्यानि च
अत्र अनन्तरपरीक्षायां गणितं t मूल्यं 5.335 इति दर्शितमस्ति। प्रमापितं t मूल्यञ्च 0.05 स्तरे 28 स्वतन्त्रावधौ 2.05 भवति। अत्र
गणितस्य मूल्यस्य प्रामापितस्य t मूल्यस्यापेक्षया आधिक्यात्
श्लोकावगाहनकौशलविकासे द्वयोः समूहयोः सार्थकभेदो न स्यादितीयमभेदप्राक्कल्पना
तिरस्कृता। तथा श्लोकावगाहनकौशलविकासे द्वयोस्समूहयोर्मध्ये सार्थकभेदो वर्तते इति
प्रमाणितं भवति। सारिणी - 2 श्लोकपूरणकौशलविकासे नियन्त्रितप्रायोगिकसमूहाभ्याम्
अनन्तरपरीक्षायां प्राप्तानि मध्यमानप्रामाणिकविचलनं t मूल्यानि च –
अत्र अनन्तरपरीक्षायां गणितं t मूल्यं 3.30 इति दर्शितमस्ति। प्रमापितं t मूल्यञ्च 0.05 स्तरे 28 स्वतन्त्रावधौ 2.05 भवति। अत्र
गणितस्य t मूल्यस्य प्रामापितस्य t मूल्यस्यापेक्षया आधिक्यात् श्लोकपूरणकौशलविकासे द्वयोः समूहयोः सार्थकभेदो न
स्यादितीयमभेदप्राक्कल्पना तिरस्कृता। तथा श्लोकपूरणकौशलविकासे
द्वयोस्समूहयोर्मध्ये सार्थकभेदो वर्तते इति प्रमाणितं भवति। सारिणी - 3 श्लोकतात्पर्यग्रहणकौशलविकासे नियन्त्रितप्रायोगिकसमूहाभ्याम्
अनन्तरपरीक्षायां प्राप्तानि मध्यमानप्रामाणिकविचलनं t मूल्यानि च –
अत्र अनन्तरपरीक्षायां गणितं t मूल्यं 3.525 इति दर्शितमस्ति। प्रमापितं t मूल्यञ्च 0.05 स्तरे 28 स्वतन्त्रावधी 2.05 भवति। अत्र
गणितस्य t मूल्यस्य प्रामापितस्य t मूल्यस्यापेक्षया आधिक्यात् श्लोकतात्पर्यग्रहणकौशलविकासे द्वयोः समूहयोः
सार्थकभेदो न स्यादितीयमभेदप्राक्कल्पना तिरस्कृता। तथा
श्लोकतात्पर्यग्रहणकौशलविकासे द्वयोस्समूहयोर्मध्ये सार्थकभेदो वर्तते इति
प्रमाणितं भवति। सारिणी - 4 सस्वरश्लोकपठनकौशलविकासे नियन्त्रितप्रायोगिकसमूहाभ्याम्
अनन्तरपरीक्षायां प्राप्तानि मध्यमानप्रामाणिकविचलनं t मूल्यानि च-
|
||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
निष्कर्ष |
प्रस्तुताध्ययने अधिगतफलानामाधारेण निम्नलिखितनिष्कर्षाः विहिताः।
1. श्लोकावगाहनकौशलसम्पादने सङ्गणकसहकृतनुदेशनस्य प्रभावोऽस्ति।
2. श्लोकपूरणकौशलसम्पादने सङ्गणकसहकृतानुदेशनस्य प्रभावोऽस्ति ।
3. श्लोकतात्पर्यग्रहणकौशलसम्पादने सङ्गणकसहकृतानुदेशनस्य प्रभावोऽस्ति।
4. श्लोकसस्वरवाचनकौशलसम्पादने सङ्गणकसहकृतानुदेशनस्य प्रभावोऽस्ति।
आपादनानि (Implications) -
1. अध्ययनस्यास्य निष्कर्षैरिदं स्पष्टं यत् सङ्गणकसहकृतानुदेशनं विना काव्य शिक्षितानां छात्राणामपेक्षया सङ्गणकसहकृतानुदेशनपूर्वकं काव्यं शिक्षितानां छात्राणां काव्याधिगमः अभ्यवर्धतेति। एतदाधारेणात्र संस्तुतिरियं क्रियते यत् काव्यशिक्षणस्य सर्वेषु पक्षेषु सङ्गणकसहकृतानुदेशनं सर्वविधान्युपयोक्तव्यानीति। एतत्संस्तुतेः कार्यान्वयनेन न केवलं संस्कृतच्छात्राणां काव्याधिगमो वर्धते प्रत्युत संस्कृतशिक्षणं समग्रमपि प्रभावपूर्णं रोचकञ्च भविष्यतीति।
2. काव्यशिक्षणे सङ्गणकसहकृतानुदेशनस्य समुचितप्रयोगे संस्कृतशिक्षकाणां पर्याप्तं प्रशिक्षणं देयम्। एतदर्थं साम्प्रतिकसंस्कृतशिक्षकप्रशिक्षणपाठ्यक्रमे सङ्गणकयन्त्रस्य स्वरूप- प्रभाव - प्रयोगादिविषयाः अवश्यं समायोज्याः।
3. संस्कृतविश्वविद्यालयेषु शिक्षकप्रशिक्षणसंस्थासु च संस्कृतस्य विभिन्नपक्षाणामध्यापने उपयोज्यानां विभिन्नानां तत्रांशानां (Software) अभिक्रमणस्य (Programe) निर्माणार्थं केन्द्रमेकमुद्घाटनीयम्। अस्मिन् अभिक्रमणस्य (Programe) निर्माणदक्षा: तेऽपि संस्कृतज्ञाः नियुक्ता भवेयुः।
4. सेवारतानां संस्कृतशिक्षकाणां कृते तन्त्रांशाभिक्रम (Software Programe) निर्माणप्रयोगादिविषये अभिविन्यासकार्यक्रमाः (Orientation Courses), पुनर्नवीकरणपाठ्यक्रमाः (Refresher Courses), कार्यशाला: ( Workshops), विभिन्नगोष्ठयः (Seminars) व्यापकरूपेण च समयोज्याः। संस्कृतविश्वविद्यालयाः शिक्षोञ्चाध्ययनसंस्थाश्च एतद्दिशि अनवरतं प्रयासशीला भवेयुः।
5. शिक्षणे सङ्गणकसहकृतानुदेशनविषयानाधृत्य बहुपुस्तकानि प्रकाशितानि। संस्कृतशिक्षणे उत काव्यशिक्षणे सङ्गणकसहकृतानुदेशनविषयानाधृत्य पुस्तकानि प्रकाशयेयुः। अध्यापकाः अपि तेषां पुस्तकानां सहायेन मार्गदर्शनं प्राप्य संस्कृतशिक्षकाः स्वस्वविद्यालयेषु काव्यशिक्षणे सङ्गणकप्रयोगं समुचितरीत्या कुर्युः। |
||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
अध्ययन की सीमा | 1. अध्ययनेऽस्मिन् सङ्गणकसहकृतानुदेशनस्य प्रभावः पद्यकाव्याधिगमे एव अदर्शि। 2. उच्चमाध्यमिकछात्रानेवस्वीकृत्य अध्ययनमिदम् अकारि। 3. अध्ययनार्थं पञ्चैव श्लोकाः स्वीकृताः। |
||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
सन्दर्भ ग्रन्थ सूची | 1. शर्मा, वीरेन्द्रप्रकाशः (1999) “रिसर्चमैथडोलॉजी”, पञ्चशीलप्रकाशनं, जयपुरम्,
2. सिंह रामपालः (2007) अधिगम का मनोविज्ञान, विनोद पुस्तक मन्दिर ।
3. पाठकः, पी. डी.(2010) शिक्षा मनोविज्ञान, विनोद पुस्तक मन्दिर।
4. नागेन्द्रः (2010) अनुसंधान प्रविधिप्रक्रिया, राष्ट्रिय-संस्कृत-संस्थानम्, नवदेहली ।
5. मंगल एस. के . (2011) शिक्षा मनोविज्ञान, PHI लरनिंग प्राइवेट लिमिटेड, नई दिल्ली ।
6. शर्मा , आर. ए. (2011) शिक्षा मापन के मूल तत्त्व एवं सांख्यकीय, आर लाल बुक डिपो, मेरठ ।
7. शास्त्री वेम्पटिकुटुम्बः (2012) शिक्षाधारावार्षिकपत्रिकाः, डिपार्टमेंट ऑफ शिक्षाशास्त्री, राष्ट्रियसंस्कृतसंस्थानम्, राजीव गांधी केम्पस, श्रृंगेरी।
8. सिंहः अरुणकुमारः (2012) मनोविज्ञान के संप्रदाय व इतिहास, मोतीलाल बनारसीदास, वाराणसी ।
9. नरेन्द्र: (2012) अधिगम का मनोसामाजिक आधार एवं शिक्षण, जैन प्रकाश मन्दिर, मेरठ ।
10. मिश्र, मीनाक्षी (2012) संज्ञानात्मकोपलब्धः, श्रीलालबहादुरशास्त्रीराष्ट्रीय-संस्कृतविद्यापीठम्, नई दिल्ली ।
11. त्रिपाठी, मधुसूधनः (2013) शिक्षा अनुसंधान , ओमेगपब्लिकेशन्स, नई दिल्ली ।
12. गुप्ता एवं गुप्ता (201)3 व्यवहारपरक विज्ञानों में सांख्यकीयविधियाँ, शारदा पुस्तक भवन इलाहाबाद ।
13. कुमार, नारायण (2017) भारतीय चिन्तन में धर्म तत्व के स्वरुप, प्रशान्त पब्लिशिंग हाउस, दिल्ली । |