ISSN: 2456–5474 RNI No.  UPBIL/2016/68367 VOL.- VIII , ISSUE- I February  - 2023
Innovation The Research Concept
श्रीमद्भागवतमहापुराणे वृत्रासुरकृत भगवतस्तुतिः
Paper Id :  17185   Submission Date :  2023-02-14   Acceptance Date :  2023-02-21   Publication Date :  2023-02-25
This is an open-access research paper/article distributed under the terms of the Creative Commons Attribution 4.0 International, which permits unrestricted use, distribution, and reproduction in any medium, provided the original author and source are credited.
For verification of this paper, please visit on http://www.socialresearchfoundation.com/innovation.php#8
आशा जी.माढक:
सहायकाचार्या
पुराणेतिहासविभागः
श्रीसोमनाथसंस्कृतविश्वविद्यालयः
गुजरात,भारत
सारांश
वृत्रासुरः योगादि सिद्धिरपिनेच्छति। 'मनोऽरविन्दाक्षदिदृक्षतेत्वाम्।' यथा अजातपक्षाः खगाः धूमादिभिः पीडीतामातरम्। यथा च दाम्नाबद्धाबालवत्साः स्तन्यम्। व्युषितं दूरदेशगतं प्रियकामेन विष्ण्णाप्रिया। तथा मेमनस्तापत्रयपीडितकर्मभिर्बद्धचकामादिभिविॅषाणं त्वां दिदृक्षते उत्तमश्लोकस्य तव जनेषु सख्यं भूयात्त्वन्माययादेहादिष्वासक्तचित्तस्यभूयोऽपितेष्वासक्तिनभूयात्। इत्थं सख्यभक्त्यैवमानवस्यसर्वेषां दुःखानामभावः भगवतः सरलतयाप्राप्तिः तथा च भगवति परमप्रेमभावोभवति
सारांश का अंग्रेज़ी अनुवाद Vritrasura: Yogadi Siddhirpinechhati. 'Mano'ravindakshdidrikshtetvam'. Yatha Ajatpaksha: Khaga: Dhumadibhi: Pditamataram. Yatha Ch Damnabaddhabalavatsa: Stanyam. Vyushitam Doordeshgatam Priyakamen Vishnnapriya. And Memnastapatrayapiditakarmabhirbaddhachakamadibhivishanam twan didrikshate uttamshlokasya tav janeshu sakhyam bhuyatvanmayayadehadishwasaktcittasyabhuyoऽpiteshwasaktinbhuyat
मुख्य शब्द असुरा अपि भगवतस्तुतिः कुर्वन्ति
मुख्य शब्द का अंग्रेज़ी अनुवाद Asura api bhagavatstuti: kurvanti
प्रस्तावना
यत्कीर्तनं यत्स्मरणं यदीक्षणं यद्वन्दनं यच्छ्रवणं यदर्हणम् । लोकस्य सद्यो विधुनोति कल्मषं तस्मै सुभद्रश्रवसे नमो नमः ।। (श्री भा.पु. २।४।१५) भक्तिरेव साधनमेकं वर्तते, यां सर्वे सुगमतया सर्वे कर्तुं शक्नुवन्ति तथा यस्यां सर्वेषां मनुष्याणामधिकारो वर्तते, अस्मिन् घोरे कलिकाले भक्तिसमानमात्मोद्धाराय नान्यः पन्था विद्यते कथं यज्ज्ञानेन, योगेन तपसा यागेन सर्व सिद्धम्भवति किन्तु स मार्गः कठिनतमो वर्तते तथाऽस्मिन् समये सर्वे पदार्थाः सुलभा न सन्ति अतो मनुष्यः कटिबद्धो भूत्वा भगवतो भक्तेरेव साधनाय तत्परो भवति । संसारेऽस्मिन् धर्ममेव मन्यमाना नैके मनुष्याः सन्ति तेषु प्रायः सर्वे ईश्वरस्य भक्तिमेवैकं साधनं मन्यन्ते । देवासुरमुनिमानवानां भक्तिमार्गेण भगवद्गुणतत्वेन चोद्धारो भवति ।
अध्ययन का उद्देश्य
भगवद्भक्तिः
साहित्यावलोकन
 श्रीमद्भागवतपुराणम्
मुख्य पाठ

श्रीमद्भागवतपुराणस्यवैष्णवानां  तथा स्तुत्युपदेशेषु वृत्रासुरकृतस्तुति  अत्यन्तप्रसिद्धातथाहिभगवद्भक्तमनामन:पावयतिस्तुतीमाम्।श्रीमद्भागवतपुराणस्यषष्ठमस्कन्धस्य एकादशे अध्याये वृत्रासुरसुरइन्द्रयोः युद्धवर्णनं वर्णितम्। यथाभागवते -

एकादशेतुवृत्रस्ययुध्यमानस्यवज्रिणा।
        भक्तिज्ञानबलोदर्काश्चित्रावाचोऽनुवर्णिताः।।[1]
वृत्रासुरइन्द्रंयुद्धायप्रोत्साहयतियथा -
नन्वेषवज्रस्तवशक्रतेजसा
       हरेर्दधीचेस्तपसाचतेजितः।
 तेनैवशत्रुंजहिविष्णुयन्त्रितो
      यतोहरिर्विजयःश्रीगुणास्ततः।।[2]
हेइन्द्र! तव ज्र दधीचिऋषिणा तपसा तीक्ष्णीकृतः तथा श्रीहरिणा तेजसा तेजितः तीक्ष्णीकृतः इति। भगवताविष्णुनायन्त्रितः प्रेरितः वज्रेणभवान्शत्रुन्नाशयेति। कारणम्तुयतोश्रीहरिः ततः श्रीगुणाश्चविजयादिनिवसन्ति।
वृत्रासुरः अपि मनसा वचसा  भगवत: गुणानां संकीर्तनं करोति।   यथागीतायाम् -
यत्रयोगेश्वरःकृष्णोयत्रपार्थोधनुर्धरः।
तत्रश्रीर्विजयोभूतिर्भुवानीतिर्मतिर्मम।।[3]
एवमिन्द्राय स्वाभिप्रायं निवेद्यभगवन्तं  प्रार्थयते अहमिति -
वृत्रासुरउवाच
अहंहरेतवपादैकमूल-
दासानुदासोभवितास्मिभूयः।
मनःस्मरेतासुपतेर्गुणास्ते
गृणीतवाक्कर्मकरोतुकायः।।
ननाकपृष्ठंनचपारमेष्ठ्यं
नसार्वभौमंनरसाधिपत्यम्।
नयोगसिद्धीरपुनर्भवंवा
समञ्जसत्वाविरहस्यकाङ्क्षे।।
अजातपक्षाइवमातरंखगाः
स्तन्यंतथावत्सतराःक्षुर्धाताः।
प्रियंप्रियेवव्युषितंविष्ण्णा
मनोऽरविन्दाक्षदिदृक्षतेत्वाम्।।
ममोत्तमश्लोकजनेषुसख्यं
संसारचक्रेभ्रमतःस्वकर्मभिः।
त्वन्माययाऽत्मात्मजदारगेहे-
ष्वासक्तचित्तस्यननाथभूयात्।।[4]
अत्रास्तुप्रथमे श्लोके कथयतियत् हेहरेतवपादावेव एकमूलमाश्रयो येषांतेषां दासानामनुदासोभूयोभविताऽस्मिभविष्यामि भवेयमितिभावः असुपतेःप्राणनाथस्य तवगुणान्मममनःस्मरतुवागपितानेवकीर्तयतु। कायस्तवैवकर्मकरोतु। दास्यभक्तिः प्रतिपादितावर्तते।समेषां भक्तानां हृदयेस्थितस्यमहान्तमप्यन्धकारंपूर्णतोनश्यति तथा भूतस्यश्रीभगवतश्चरणकमलेसदासर्वदासर्वथा  प्रेमभावेन चिन्तनमवश्यंकर्तव्यम्।            श्रीभगवतोदिव्यमङ्गलस्वरूपायाधात्वादिमूर्तेरथवामानसमूर्तेः मनोहरचरणकमलयोः श्रद्धापूर्वकं दर्शनं चिन्तनं पूजनं तथा  सेवनमेव अत्त्युत्तमानवधासुभक्तिषुश्रेष्ठाप्रेष्ठाचपादसेवनभक्तिरितिनाम्नाविद्वद्भिःप्रकीर्त्यते।ममताऽहङ्काराऽभिमानादीनां नाशाय प्रभुचरणकमलयोरनन्यप्रेम्णः प्राप्तयेपादसेवनभक्तिं कुर्वन्तिभगवतोऽनन्यभक्तानां सङ्गेन भगवतः चरणसेवायाः तत्त्वंरहस्यं तथा प्रभावंश्रोतुंमिलतिइत्थं श्रद्धालुभक्तः पादसेवनभक्ति: प्राप्नोति अस्याःपादसेवनभक्तेर्महत्त्वंसर्वेषु शास्त्रेष्वनेनप्रकारेण प्रतिपादितमस्तितद्यथा
अपारसंसारसमुद्रमध्ये
समज्जतोमेशरणंकिमस्ति।
गुरोकृपालोकृपयावदैतद्
विश्वेशपादाम्बुदीर्घनौका।।[5]
पदपरवारिजलुपानकरिआपुसहितपरिवार।
पितरपारुकरिप्रभुहिपुनिमुदितगयउलेइपार।।[6]
छिनुछिनुप्रभुपदकमलबिलोकी।
रहिहमुदितदिवसजिमिकलकी।।
मोहिमगचलतनहोइहिहारी।
छिनुछिनुचरनसरोजनिहारी।।
पायपखारिबैठितरुछाही।
करिहउँबाउमुदितमनमाहीं।।
सममहितृनतरुपल्लवडासी।
पायपलोटिहिसबनिसिदासी।।[7]
सतत्रवज्राङ्कुशवारिजाञ्चित-
ध्वजादिचिह्नानिपदानिसर्वतः।
ददर्शरामस्यभ्रुवोऽतिमङ्गला-
न्यचेष्टयत्पादरजःसुसानुजः।।
अहोसुधन्योऽहममूनिराम-
पादारविन्दाङ्कितभूतलानि।
पश्यामियत्पादरजोविमृग्यं
ब्रह्मादिदेवैःश्रुतिभिश्चनित्यम्।।[8]
अहोकृतार्थास्मिजगन्निवासते
पादाब्जसंलग्नरजःकणादहम्।
स्पृशामियत्पद्मशंकरादिभि-
विमृग्यतेरन्धितमानसैःसदा।।[9]
तावद्भयंद्रविणगेहसुहृन्निमित्तं
शोकःस्पृहापरिभवोविपुलश्चलोभः।
तावन्ममेत्यसदवग्रहआर्तिमूलं
यावन्नतेऽङ्घ्रिमभयंप्रवृणीतलोकः।।[10]
समाश्रितायेपदपल्लवप्लव
महत्पदंपुण्ययशोमुरारेः।
भवाम्बुभिर्वत्सपदंपरंपदं
पदंपदंयद्विपदांनतेषाम्।।[11]
त्वय्यम्बुजाक्षाखिलसत्त्वधाम्नि
समाधिनाऽऽवेशितचेतसैके।
त्वत्पादपोतेनमहत्कृतेन
कुर्वन्तिगोवत्सपदंभवाब्धिम्।।[12]
रजसिरधरिहिर्यंनयनन्हिलावहिं।
रघुबरमिलनसरिससुखपावहि।।[13]
नितपूजतप्रभुर्पावरीप्रीतिनहृदर्यंसमाति।
मागीमागीआयसुकरतराजकाजबहुभाँति।।
वृत्रासुरेणाऽपिद्वितीयश्लोकेस्मिन्यथाभणितम् -
ननाकपृष्ठंनचपारमेष्ठयं
नसार्वभौमंनरसाधिपत्यम्।
नयोगसिद्धीरपुनर्भवंवा
समञ्जसत्वाविरहय्यकाङ्क्षे।।[14]
अस्यश्लोकस्यभावोवर्ततेयद्भगवतश्चरणराजं शरणं जिघृक्षुर्भक्तजनः कदाऽपिस्वर्गन्नवाञ्छति  एव कदाऽपिब्रह्मणः पदन्नवाञ्छति  एव भक्तः कदापि चक्रवर्तित्वन्नवाञ्छति  एव कदाऽपिनैकायोगसिद्धीर्नवाञ्छतिततो विशेषमपि कथयति यन्मोक्षपदस्यापिकामनां   करोतिअतो भगवतः केवलयापादसेवनभक्त्यैव भगवतोऽनन्तप्रेमावाप्तयेनेकेषां भक्तानामनेकेषु शास्त्रेष्वस्याः पादसेवनभक्तेरनुपमं वर्णनमायातिअत एव भगवतश्चरणकमलयोः श्रद्धापूर्वकं मनोनिधाय तयोश्चरणयोर्नित्यं सेवनमेव पादसेवनभक्तिर्वर्तते।वृत्रासुरः प्रभुभक्तिविरहय्यध्रुवोलोकब्रह्मलोकःपृथ्वेराधिपत्यमपिनेच्छतितथा -
एषप्रत्ययसर्गोविपर्ययाशक्तितुष्टिसिद्धियाख्यः।
गुणवैषम्यविर्मदात्तस्यचभेदास्तुपञ्चाशत्।।
पञ्चविपर्ययभेदाभवन्त्यशक्तिश्चकरणवैकल्यात्।
अष्टाविंशतिभेदातुष्टिर्नवधाऽष्टधासिद्धिः।।[15]
तेषान्नामानियथा-    
१. अणिमा
२. महिमा
३. गरिमा
४. लघिमा
५. प्राजि
६. प्राकाम्य
७. वशित्व
८. ईशित्वइति।
वृत्रासुरः योगादि सिद्धिरपिनेच्छति। 'मनोऽरविन्दाक्षदिदृक्षतेत्वाम्।यथा अजातपक्षाः खगाः धूमादिभिः पीडीतामातरम्। यथा  दाम्नाबद्धाबालवत्साः स्तन्यम्।व्युषितं दूरदेशगतं प्रियकामेन विष्ण्णाप्रिया।तथा मेमनस्तापत्रयपीडितकर्मभिर्बद्धचकामादिभिविॅषाणं त्वां दिदृक्षते उत्तमश्लोकस्य तव जनेषु सख्यं भूयात्त्वन्माययादेहादिष्वासक्तचित्तस्यभूयोऽपितेष्वासक्तिनभूयात्। इत्थं सख्यभक्त्यैवमानवस्यसर्वेषां दुःखानामभावः भगवतः सरलतयाप्राप्तिः तथा  भगवति परमप्रेमभावोभवति इतोयावत्कथयितुंशक्यतेयद् स्वयंभगवान्भक्ताधीनोभक्तेष्वेव भवतिइमामेव दास्यभक्तिं शास्त्रकाराः शास्त्रेष्वनेनप्रकारेण स्तुवन्तितद्यथा -
जेनमित्रदुखहोहिदुखारी।
तिन्हहिबिलोकतपातकभारी।।
निजदुखगिरिसमरजकरिजाना।
मित्रकदुखरजमेरुसमाना।।
जिन्हकेअसिमतिसहजनआई।
तेमठकतहठिकरतमिताई।।
कुपथनिवारिसुपंथचलावा।
सुत प्रगटै अवगुनन्हि दुरावा।।
न तथा मे प्रियतम आत्मयोनिर्न शङ्करः।
न च सङ्कर्षणो न श्रीर्नैवात्मा च तथा भवान्।।
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम्।।
सर्वगुह्यतमं भूयः शृणु मे परमं वचः।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्।।
यथाहं नाभिजानामि  विजयेन कदाचन।
विरोध तेन सत्येन मृतो जीवत्वयं शिशुः।।
सख्युः प्रियस्य विप्रर्षेरङ्गसङ्गातिनिर्वृतः।
प्रीतो व्यमुञ्चदब्बिन्दून् नेत्राभ्यां पुष्करेक्षणः।।
इत्थमनयैव सख्यभक्त्या राजगुहादयो नैके भक्ताः संसारसागरात् तीर्णाःअत एव भगवन्तमेव परमं सुहृदं ज्ञात्वा स्वस्य सर्वस्वं तस्मै प्रदाय परमप्रेमभावेनेयं सख्यभक्तिः करणीया। इति श्रीमद्भागवतपुराणे स्तुत्युपदेशेषु वृत्रासुरकृत स्तुतिर्मध्ये भगवत्तत्त्वचिन्तनम्।

निष्कर्ष
अन्ततोगत्वा शोधपत्रमिदं लघ्वस्ति, तथापि अस्मिन्कलिकाले भक्त्यैव साधनं सर्व मनुष्याणां सर्व कर्माणां सर्व धर्माणां च वर्तते । मुमुक्षुणां कृते निष्काम भक्त्यैव मोक्षस्य, भगवद्प्राप्तेः साधनं चास्ति। मलं क्षालयति क्षिप्रं विक्षेपं संक्षिणोति च। आविर्भावयति प्रेष्ठ भावितं भक्तिदर्शनम् ।।
सन्दर्भ ग्रन्थ सूची
1. श्रीमद्भागवतमहापुराणम् 2. श्रीमद्भगवद्गीता 3. श्रीरामचरितमानस 4. सांख्यकारिका 5. नारदभक्तिसूत्रम् 6. शाडिल्यशक्तिसुत्रम् 7. नारदपुराणम्
अंत टिप्पणी
[1] श्री. भा. ६।११।१
[2] श्री. भा. ६।११२०
[3] श्री. गीता१८।७८
[4] श्री. भा. ६।११।२४-२७
[5] नवधाभक्तिपृ. सं. २८
[6] श्रीरामचरितमानस - बालकाण्ड
[7] श्रीरामचरितमानसअरण्यकाण्ड
[8] अ. रा. २।९।२-३
[9] अ. रा. १|५/४३
[10] अ. रा. ३|६|९
[11] श्री. भा. १०।१४।५८
[12] श्री. भा. १०२/३०
[13] श्रीरामचरितमानस
[14] श्री. भा. ६।११।२५
[15] सांख्यकारिका ४६-४७