ISSN: 2456–5474 RNI No.  UPBIL/2016/68367 VOL.- VIII , ISSUE- II March  - 2023
Innovation The Research Concept
असिद्धं बहिरङ्गमन्तरङ्गे परिभाषायाः निरूपणम्
Invalid Definition of External and Internal
Paper Id :  17333   Submission Date :  2023-03-01   Acceptance Date :  2023-03-06   Publication Date :  2023-03-07
This is an open-access research paper/article distributed under the terms of the Creative Commons Attribution 4.0 International, which permits unrestricted use, distribution, and reproduction in any medium, provided the original author and source are credited.
For verification of this paper, please visit on http://www.socialresearchfoundation.com/innovation.php#8
महेता प्रतिक घनश्यामभाई
सहायक प्राध्यापक
डिपार्टमेंट ऑफ संस्कृत, पाली और प्राकृत
महाराजा सयाजिराव यूनिवर्सिटी,
वडोदरा,भारत
सारांश
व्याकरणशास्त्रस्य परम्परा प्राचीन कालादारभ्याधुना पर्यन्तं प्रचलति। अस्मिन्समये अधिकजनाः सरलशास्त्रावलोकं कृत्वा व्याकरणाध्ययनपरम्परायाः मूलरूपं न ज्ञायन्ते। परिभाषेन्दुशेखरग्रन्थे नैकानां सिद्धान्तानां वर्णनं सुस्पष्टतया कृतमस्ति। अस्मिन्शोधप्रस्तावे ‘असिद्धं बहिलङ्गमन्तरङ्गे’ परिभाषायाः सरलार्थेनोदाहरणेन निरुपणमस्ति।
सारांश का अंग्रेज़ी अनुवाद The tradition of grammar has been going on since ancient times. At this time, most people do not understand the basic form of the tradition of studying grammar by looking at simple scriptures. Many principles are clearly described in Paribhashendushekhar. This research proposal contains an example of the definition of ‘invalid externally internally’ in a simple sense.
मुख्य शब्द अनतरङ्गकार्यं सिद्धं भवति ।
मुख्य शब्द का अंग्रेज़ी अनुवाद The non-wave function is accomplished.
प्रस्तावना
नित्यादप्यन्तरङ्गं बलीयः; अन्तरङ्गे बहिरङ्गस्यासिद्धत्वात्। तदाह — अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये, अन्तर्भूतान्यङ्गानि निमित्तानि यस्य तदन्तरङ्गम् । एवं तदीयनिमित्तसमुदायाद् बहिर्भूताङ्गकं बहिरङ्गम् । एतच्च खरवसानयोः ८.३.१५ इति सूत्रे असिद्धवत् ६.४.२२ सूत्रे च भाष्यकैटयोः स्पष्टम् । गृह्यते अत्राङ्गशब्देन शब्दरूपं निमित्तमेव, तस्यैव शब्दशास्त्रे प्रधानत्वात् । तेनार्थनिमित्तकस्य न बहिरङ्गत्वम् । अत एव न तिसृचतसृ ६.४.४ इति निषेधश्चरितार्थः । अन्यथा स्त्रीत्वरूपार्थनिमित्तकतिस्रपेक्षयाऽन्तरङ्गत्वात् त्रयादेशे तद् असङ्गतिः स्पष्टैव। अत एव त्रयादेशे 'स्रन्तस्य प्रतिषेधः' इति स्थानिवत्सूत्रस्थभाष्यवार्तिकादि सङ्गच्छते ।एतेन 'गौधेरः, 'पचेत्' इत्यादावेयादीनामङ्गसंज्ञासापेक्षत्वेन बहिरङ्गतयाऽसिद्धत्वाद् वलिलोपो न स्यादिति परास्तम्। एयादेशादेरपरनिमित्तकत्वेनान्तरङ्गत्वाच्च।
अध्ययन का उद्देश्य
व्याकरणाध्ययनपरम्परायां छात्रान्कृते सौकर्याय, अधिकसूत्रप्राप्तिप्रसङ्गे परिभाषयाः माध्यमेन सूत्रप्राप्तिः कथं भवेत्तस्योद्देशार्थं एवमन्ते व्याकरणाध्ययने छात्राणां संसर्गो भवेदिति प्रयोजनमस्ति शोधस्यास्य।
साहित्यावलोकन

पराभषेन्दुशेखरम् , व्याकरण महाभाष्यम्।

मुख्य पाठ

ननु 'येन विधिस्तदन्तस्य १.१.७२ इति सूत्रे भाष्ये इको यणचि ६.१.७७ इत्यादावपि तदन्तविधौ 'स्योन' इत्यत्रान्तरङ्गत्वाद्यणो गुणबाधकत्वमिष्यते तन्न सिद्धयेत्, ऊनशब्दमाश्रित्य यणादेशो नशब्दमाश्रित्य गुण इत्यमन्तरङ्गत्वाद् गुण एव स्यादित्युक्तम्।

अत्र कैयट:-सिवेर्बाहुलकादौणादिके नप्रत्यये गुणवलोपोठां प्रसङ्ग ऊठपवादत्वावलोपं बाधते गुणं त्वन्तरङ्गत्वाद् बाधते । गुणो ह्यङ्गसम्बन्धिनी मिग्लक्षणां लध्वीमुपधामार्द्धधातुकं चाश्रयति । ऊठ तु वकारान्तमङ्गमनु नासिकादिकञ्च प्रत्ययमित्यल्पापेक्षत्वादन्तरङ्गः। तत्र कृते यण्गुणौ प्राप्नुतं इति । एवञ्च संज्ञापेक्षस्यापि बहिरङ्गत्वं स्पष्टमेवोक्तमिति चेत्, न । तदन्तविधावपि बहुपदार्थापेक्षत्वरूपबहिरङ्गत्वस्य गुणे. सत्त्वेन तत्र दोष कथनपरभाष्यासङ्गतेः । बहिरङ्गान्तरङ्गशब्दाभ्यां बह्वपेक्षत्वाल्पापेक्षत्वयोः शब्दमर्यादयाऽलाभाच्च । तथा सति 'असिद्धं बह्वपेक्षमल्पापेक्ष' इत्येव वदेत् । अत एव 'विप्रतिषेध' सूत्रेभाष्ये गुणाद्यणादेशोऽन्तरङ्गत्वादित्यस्य 'स्योन' इत्युदाहरणं न तु गुणादूट अन्तरङ्गत्वादित्युक्तम्। त्वद्रोत्या तदपि वक्तमु चितम् । प्राथम्यात्तदेव वा वक्तुमुचितम् । मम त्वन्तरङ्गपरिभाषया तद्वार णासम्भवात्तन्नोक्तम् ।किश्च सिद्धान्ते नित्यत्वाद् गुणात्पूर्वमूठ, गुणस्तु ऊठि यणाबाधितत्वादनित्यः। ऊनशब्दमाश्रित्येत्यादिभाष्येण च परिभाषायामङ्गशब्देन सप्तम्याद्यन्ततयोपात्तं शब्दरूपं निमित्तमेव गृह्यत इति स्पष्ट मेवोक्तम् ॥

यत्तु कयटेन तदन्तविधिपक्षे परत्वाद् गुणः प्राप्नोतीत्युक्तं तत्तु न शब्दमाश्रित्येत्यादिभाष्यासङ्गत्या चिन्त्यम् ।वलिलोपेऽन्तरङ्गपरिभाषा न प्रवर्तत इति तु न युक्तम्, तत्सूत्रे भाष्य एव व्रश्वादिषु लोपातिप्रसङ्गमाशङ्कयोपदेशसामर्थ्यान्न । न च 'वृश्चती'त्यादी चारितार्थ्यम्, बहिरङ्गतया सम्प्रसारणस्यासिद्धत्वेन पूर्वमेव तत्प्राप्तेरिति भाष्योक्तेः।

यत्तु नलोपस्य षट्संज्ञायामसिद्धत्वात् 'पञ्चे'त्यत्र न षट् ४.१.१० इति निषेध इति । तच्चिन्त्यम् । नलोपस्य हि पदसंज्ञासापेक्षत्वेन बहिरङ्गत्वं वाच्यम् । तच्च न, संज्ञाकृतबहिरङ्गत्वस्यानाश्रयणात् । 'पञ्चे'त्यत्र निषेधस्तु स्त्रियां यत् प्राप्नोति तन्नेति व्याख्यानसामर्थ्येन भूतपूर्वषट्त्वमादायेति बोध्यम्। अत एव कृति तुग्ग्रहणं चरितार्थम् । 'वृत्रहभ्या मित्यादौ पदत्वनिमित्तकत्वेऽपि नलोपस्य बहिरङ्गत्वाभावात् । भ्यामः पदसंज्ञानिमित्तत्वेऽपि नलोपस्य तन्निमित्तकत्वाभावात् । परम्परया निमित्तत्वमादाय बहिरङ्गत्वाश्रयणे तु न मानम् । ध्वनितं चेदं नलोपः सुप् ८.२.२ इति सूत्रे भाष्य इति तत्रैव भाष्यप्रदीपोद्योते निरूपितम् ।

अन्तरङ्गे कर्तव्ये जातं, तत्काल प्राप्तिकञ्च बहिरङ्गमसिद्धमित्यर्थः । बवादिषु पदसंस्कारपक्षे समानकालत्वमेव द्वयोरिति बोध्यम्।एतेन 'अन्तरङ्गं बहिरङ्गाद् बलीयः' इति परिभाषान्तरमित्यपास्तम्। एनामाश्रित्य 'विप्रतिषेध' सूत्रे भाष्ये तस्याः प्रत्याख्यानाच्च ।

इयं च त्रिपाद्यां न प्रवर्तते, त्रिपाद्या असिद्धत्वात् । अस्याञ्च 'वाह ऊठ' सूत्रस्थभूग्रहणं ज्ञापकमित्येषा सपादसप्ताध्यायीस्था । अन्यथा सम्प्रसारणमात्रविधानेन लघूपधगुणे वृद्धिरेचि ६.१.८८ इति वृद्धौ 'विश्वौह' इत्यादिसिद्धस्तद्वं यथ्यं स्पष्ट मेव । सत्यां ह्येतस्यां बहिरङ्गसम्प्रसारणस्यासिद्धत्वाल्लघूपधगुणो न स्यात् । न च पुगन्त ७.३.८६ इति सत्र निमित्तमिको विशेषणमत एव 'भिनत्ती'त्यादौ न गुणः, एवञ्च 'नाजानन्तर्ये' (प.५१) इति निषेधात्कथं परिभाषाप्रवृत्तिरिति वाच्यम् ? प्रत्ययस्याङ्गांश उत्थिताकाङ्क्षत्वेन तत्रैवान्वयात् । पुगन्तेत्यादौ कर्मधारयाश्रयणेनप्रत्ययपराङ्गावयवलघूपधारूपेको गुण इति इको गुणवृद्धी १.१.३ इति सूत्रभाष्यसम्मतेऽर्थे भिनत्तीत्यादावदोषाच्च ।

अकारान्तोपसर्गेऽनकारान्ते चोपपदे वहेवहिर्वा ण्विविचावनभिधानान्न स्त एव । वायू हेत्यादि तूहतेः क्विपि बोध्यम्। धातूनामनेकार्थत्वान्नायासङ्गतिः। 'प्रोह' इत्याद्यसाध्वेव, वृद्धरप्राप्तेः। अस्योहस्यानर्थक्यात न प्रादूहोढः ६.१.८९ वार्त्तिकम्-३) इत्यस्यापि प्रवृत्तिः।न च कार्यकालपक्षे त्रिपाद्यामेतत्प्रवृत्तिर्दुवरिति वाच्यम्, पूर्व प्रति परस्यासिद्धत्वादन्तरङ्गाभावेन पूर्वस्य तन्निरूपितबहिरङ्गत्वाभावात्तया तस्यासिद्धत्वप्रतिपादनासम्भवात् । न चानया पूर्वस्यासिद्धत्वादभावेन तं प्रति परासिद्धत्वं पूर्वत्र ८.२.१ इत्यनेन वक्तु मशक्यमिति वाच्यम्, एवं हि विनिगमनाविरहादुभयोरप्यप्रवत्यापत्तेः। किञ्च पूर्वत्रेत्यस्य प्रत्यक्षत्वेन तेनाऽऽनुमानिक्या अस्या बाध एवोचितः। अतः कार्यकालपक्षेऽपि त्रिपाद्यामस्या अनुपस्थितिरेव ॥

अत एव कार्यकालपक्षमेवोपक्रम्योक्तयुक्तीरक्त्वा 'अतोऽयुक्तोऽयं परिहारो' न वा बहिरङ्गलक्षणत्वात्' इत्युक्तं विसर्जनीयसूत्रे भाष्ये सिद्धाजना त्रिपादीस्थेऽन्तरङ्ग कर्तव्येऽयं परिहारो न युक्त इति तदर्थः। कि वचनमेवाऽऽरब्धव्यमिति तदाशयः।

अत एव 'निगाल्यत' इत्यादौ लत्वार्य तस्य दोषः' इति वचनमेवाडरब्धम् । अन्यथान्तरङ्गत्वाण्णिलोपात्पूर्व वैकल्पिक-लत्वे त_यथ्यं स्पष्टमेव ।येऽपि लक्ष्यानुरोधात् आनुमानिक्याऽप्यन्तरङ्गपरिभाषया प्रत्यक्षसिद्धस्य पूर्वत्रे'त्यस्य बाधं वदन्ति, तेऽपि लक्षणकचक्षुभिर्नादर्तव्या इति दिक्।

अत एव ओमाङोश्च ६.१.९५ इत्याङ्ग्रहणं चरितार्थम् । तद्धि 'खट्वा आ ऊढे'त्यत्र परमपि सवर्णदीर्घ बाधित्वा अन्तरङ्गत्वाद् गुणे कृते वृद्धिप्राप्तौ पररूपार्थम् । साधनबोधकप्रत्ययोत्पत्त्यनन्तरं पूर्व धातोरुपसर्गयोगे पश्चात् खट्वाशब्दस्य समुदायेन योगाद् गुणस्यान्तरङ्गत्वमिति सम्प्रसारणाच्च ६.१.१०८ इति सूत्रे भाष्ये स्पष्टम् । 'एही'त्यनुकरणस्य शिवादिशब्दसम्बन्धे तु नास्य प्रवृत्तिः । ज्ञापकपर सम्प्रसारणाच्च ६.१.१०८ इति सूत्रस्थभाष्यप्रामाण्येनानित्यं प्रकृतिवदनुकरणमित्यतिदेशमादाय लब्धाङ्त्वे एतदप्रवृत्तेः।

यत्तु- पूर्व धातुरुपसर्गेण युज्यते पश्चात्साधनेन । उपसर्गेण तत्संज्ञकशब्देन, साधनेन कारकेण तत्प्रयुक्तकार्येण च । अत एव 'अनुभूयते' इत्यादी सकर्मकत्वात् कर्मणि लकारसिद्धिरिति । तन्न, क्रियायाः साध्यत्वेन बोधात्साध्यस्य च साधनाकाङ्क्षतथा तत्सम्बन्धोत्तरमेव निश्चितक्रियाबोधन साधनकार्यप्रवृत्त्युत्तरमेव क्रियायोगनिमित्तोपसर्गसंज्ञकस्य सम्बन्धौचित्यात् । अत एव सुट्कात् पूर्वः ६.१.१३५ इति सूत्रे 'पूर्व धातुरुपसर्गेणे'त्युक्त्वा नैतत् सारं 'पूर्व धातुः साधनेन युज्यते पश्चादुपर्गेणे'त्युक्त्वोक्तयुक्त्याऽस्यैव युक्तत्वमुक्तं 'साधनं हि क्रियां निवर्तयती'त्यादिना भाष्ये । उपसर्गद्योत्यार्थान्तविण धातुनवार्थाभिधानादुक्तेषु कर्मणि लकारादिसिद्धिः। पश्चाच्छोतृबोधाय द्योतकोपसर्गसम्बन्धः ।एवं च अन्तरङ्गतरार्थकोपसर्गनिमित्तः सुट संकृतीत्यवस्थायां द्वित्वावितः पूर्व प्रवर्तते ततो द्वित्वादि ।अत एव 'प्रणिदापयती'त्यादौ णत्वं 'यदागमाः' (प.११) इति न्यायेन समाहितं भाष्ये।

अत एव प्रत्येति 'प्रत्ययः' इत्यादिसिद्धिः। अन्यथान्तरङ्गत्वात् सवर्णबीचे रूपासिद्धिः। यदुपसर्गनिमित्तकं कार्यमुपसर्गार्थाश्रितं विशिष्टोपसर्गनिमित्तकत्वात्तवन्तरङ्गम्। यत्तु न तथा तत्र पूर्वागतसाधननिमित्तकमेवान्तरङ्गम् । अत एव न धातु १.१.४ इति सूत्रे 'प्रेद्ध' इत्यत्र गुणो बहिरङ्ग इति भाष्य उक्तम्।किञ्च पूर्वमुपसर्गयोगे धातूपसर्गयोः समास ऐकस्वर्याद्यापत्तिरिति 'उपपदमतिङ २.२.१९ इति सूत्रे भाष्ये स्पष्टम् ।

भावार्थप्रत्ययस्यापि पूर्वमेवोत्पत्तिः। अत एव णेरध्ययने ७.२.२६ इति निर्देशः सङ्गच्छते। इदं च सामान्यापेक्षज्ञापकं, भावतिकोऽपि पूर्वमुत्पत्तेः । अन्यथा तत्र समासापत्तिः। तिङि त्वतिडिति निषेधान्न तत्र दोषो यदि भावतिङ्युपसर्गयोगोऽस्तीत्यलम् ।

यत्तु विशेषापेक्षात्सामान्यापेक्षमन्तरङ्ग विशेषापेक्षे विशेषधर्मस्याधिकस्य निमित्तत्वात् । यथा रुदादिभ्यः सार्वधातुके ७.२.६६ इत्यत्र वादित्वं सार्वधातुकत्वञ्च । तत्र सार्वधातुकत्वज्ञानाय प्रकृतेर्धातुत्वज्ञानं प्रत्ययस्य प्रत्ययत्वज्ञानं चाऽऽवश्यकमिति यासुडन्तरङ्गः। एतेन यद् 'अनुबातडितः, १.३.१२ इति सूत्रे कैयटेनोक्तं 'लमात्रापेक्षयाऽन्तरङ्गास्तिबादयो 'लकारविशेषापेक्षत्वाद्बहिरङ्गाः स्यादय' इति तत्परास्तम्; विशेषापेक्षत्वेऽपि तस्य सामान्यधर्मनिमित्तकत्वाभावेन तत्त्वस्य दुरुपपादस्वात, परनिमित्तकत्वेन स्यादीनां बहिरङ्गत्वाच्चेति। तन्न, विशेषस्य ध्याप्यत्वेन व्यापकस्यानुमानेनोपस्थितावपि तस्य निमित्तत्वे मानाभावेनाधिकधर्मनिमित्तकत्वानुपपादनात्, भाष्ये एवंविधान्तरङ्गबहिरङ्गभावस्य क्वाप्यनुल्लेखाच्च।

यत्तु मतुप् ५.२.९४ सूत्र भाष्ये पञ्च गावो यस्य सन्ति स पञ्चगुरित्यत्र मतुष्प्राप्तिमाशय प्रत्येकमसामर्थ्यात् समुदायादप्रातिपदिकत्वात् समासात् समासेनोक्तत्वादिति सिद्धान्तिनोक्ते 'नैतत्सारमुक्तेऽपि हि प्रत्ययार्थे उत्पद्यते द्विगोस्तद्धितो यथा-पाञ्चनापितिरिति पूर्वपक्ष्युक्तिर्भाष्ये । द्विगोर्लंगनपत्ये ४.१.८८ इति लुग्विधानात्तद्धितार्थद्विगोस्तद्धितो भवति पश्चगुशब्दश्च द्विगुरिति तदाशयं कयटः । ततो 'द्वैमातुरः, पाञ्चनापितिः, पञ्चसु कपालेषु संस्कृत' इत्यादौ सावकाशद्विगोर्बहुव्रीहिणा प्रकृते परत्वाद्वाध इत्याशयेन नैष द्विगुः, कस्तहि ? बहुव्रीहिरिति सिद्धान्तिनोक्ते तमवकाशमजानानोऽपवादत्वाद् द्विगुः प्राप्नोतीति पूर्वपक्षी। अन्यपदार्थे, सुबन्तमात्रस्य विधीयमानबहुव्रीहेः संख्यायास्तद्धितार्थे विधीयमानो द्विगुविशेषविहितत्वाद् बाधकः प्राप्नोतीति कैयटः। ततः सिद्धान्त्येकदेश्याह, अन्तरङ्गत्वाद् बहुव्रीहिः। काऽन्तरङ्गता ? अन्यपदार्थे बहुव्रीहिविशिष्टेऽन्यपदार्थे द्विगुस्तस्मिँश्चास्य तद्धितेऽस्तिग्रहणं क्रियत' इति । अधिकास्त्यर्थापेक्षमत्वर्थनिमित्तो द्विगुर्बहिरङ्ग इति कैयट इति। नैषा सिद्धान्त्युक्तिरेतावताप्यपवादत्वाहानेः । अच्सामान्यापेक्ष-यणो विशिष्टसवर्णाजपेक्षदीर्घेण बाधदर्शनात् । उक्तरीत्या परत्वेनैव बाधसिद्धेः। किञ्च अत्राधिकापेक्षत्वेनैव बहिरङ्गत्वम् । न केवलविशेषापेक्षत्वेनेति नैतद्भाष्यारूढं विशेषापेक्षस्य बहिरङ्गत्वम् । अत एव सुबन्तसामान्यापेक्षो बहुव्रीहिस्तद्विशेषापेक्षो द्विगुरिति नोक्तं भाष्ये ।

न चार्थकृतबहिरङ्गत्वस्यानाश्रयणादिदमयुक्तम्, एकदेश्युक्तित्वेनादोषात् । अत एवास्तिग्रहणं नोपाध्यर्थ, किन्तु अस्तिशब्दान्मतुबर्थमिति त्वदभिमतं बहिरङ्गत्वमपि द्विगोस्तिीति प्रतिपाद्य सिद्धान्तिना 'मत्वर्थे द्विगोः प्रतिषेधो वक्तव्यः' इति वचने तत्सिद्धमित्युक्तम् । अत एव तदोः सः सौ ७.२.१०६ इति सूत्रेऽनन्त्ययोरिति चरितार्थम् । अन्यथा प्रत्ययसामान्यापेक्षत्वेनान्तरङ्गत्वादन्त्यस्यात्वेऽनन्त्यस्यैव सत्वे सिद्धे तद्वैयर्थ्यं स्पष्टमेव ।पादः पत् ६.४.१३० इति सूत्रे भाष्यकैटयोरप्येतदन्तरङ्गत्वाभाव एव सूचित इति सुधियो विभावयन्तु ।

नन्वेवम् 'असुनुवदि'त्यत्र लघूपधगुणादुवडोऽल्पनिमित्तत्वाभावादुवङ् न स्यादिति चेत्, न। तत्रान्तःकार्यत्वरूपान्तरङ्गत्वसत्त्वात् । अन्त:कार्यत्वञ्च पूर्वोपस्थितनिमित्तकत्वमङ्गशब्दस्य निमित्तपरत्वात् ।इटमन्तरङ्गत्वं लोकन्यायसिद्धमिति मनुष्योऽयं प्रातरुत्थाय शरीरकार्याणि करोति, ततः सुहृदां, ततः सम्बन्धिनाम् । अर्थानामपि जातिव्यक्तिलिङ्गसंख्याकारकाणां बोधक्रमः शास्त्रकृत्कल्पितस्तत्क्रमेणव च तद. बोधकशब्दप्रादुर्भावः कल्पित इति तत्क्रमेणव तत्कार्याणीति 'पव्ये'त्यादाव. न्तरङ्गत्वात् पूर्व पूर्वयणादेशः परयणादेशस्य बहिरङ्गतया असिद्धत्वादित्यनेन अचः परस्मिन् १.१.५७ इति सूत्रे भाष्ये स्पष्टम् ।

तदपि युगपत्प्राप्तौ पूर्वप्रवृत्तिनियामकमेव । यथा 'पद्व्ये त्यत्र पदस्य विभज्यान्वाख्याने न तु जातस्य बहिरङ्गस्य तादृशेऽन्तरङ्गऽसिद्धतानियामकं प्रागुक्तलोकन्यायेन तथैव लाभादिति वाह ऊठ् ६.४.१३२ सूत्रे कैयटे स्पष्टम् । अत एव 'वाय्वो रित्यादौ वलिलोपो यणः स्थानिवत्त्वेन वारितः 'अचः परस्मिन्' इत्यत्र भाष्यकृता। क्रमेणान्वाख्याने तु उक्तोदाहरणे पूर्वप्रवृत्तिकत्वमप्यन्तरङ्गत्वं बहिरङ्गस्यासिद्धत्वमपि निमित्ताभावादप्राप्तिरूपं बोध्यम् 
निष्कर्ष
यत्तु एवंरीत्या पूर्वस्थानिकमप्यन्तरङ्गमिति । तच्चिन्त्यम्, 'स्रजिष्ठ' इत्यादौ विन्मतोलकि टिलोपस्यापवावविन्मतोलप्रवृत्त्या जातिपक्षाश्रयणेन वारणप्रयासस्य प्रकृत्येकाच् ६.४.१६३ इति सूत्रप्रयोजनवपनावसरे भाष्यकृत्कृतस्य नष्फल्यापत्तः। त्वयुक्तरीत्या विन्मतोलको बहिरङ्गासिकत्वेन अनायासतस्तद्वारणात । भाष्य ईदृशरीत्या बहिरङ्गासिद्धत्वस्य क्वाप्यनाश्रयणाच्च । परिभाषायामशब्दस्य निमित्तपरत्वाच्च ।इयं चोत्तरपदाधिकारस्थबहिरङ्गस्य नासिद्धत्वबोधिकेति च एकाचोऽम् ६.३.६८ इति सूत्रे भाष्ये पूर्वपक्ष्युक्तिरिति सा नादर्तव्या। 'परन्तप' इत्यादावनुस्वारे नासिद्धत्वं मुमस्त्रिपाद्यां तवप्रवृत्तः।नव्यमतेऽपि यथोद्देशपक्षाश्रयणेनान्यथासिद्धोबाहरणदानेन तस्य तदुक्तित्वमावश्यकमित्याहुः । आभीयेऽन्तरङ्गे आभीयस्य बहिरङ्गस्य समान्याश्रयस्य नानेनानि सिचिवृद्धर्येन नाप्रतिनानेनासिद्धत्वमसिद्धत्वादित्यसिद्धवत्सत्रे भाष्ये स्पष्टम् । एवं येन नाप्राप्तिन्यायेनान्तरङ्गबाधकत्वमूलकं न सिच्यन्तरङ्गमस्तीति इको गुणवृद्धी १.१.३ इति सूत्रे भाष्ये स्पष्टम् ॥ संस्कृत व्याकरणशास्त्र का इतिहास , युधिष्ठिर मीमांसक (प्रथम भाग)
सन्दर्भ ग्रन्थ सूची
1. “वैयाकरणलसिद्धान्तकौमुदी” (प्रथमोभागः), भट्टोजिदीक्षितः, शर्मा गिरिधरः (सम्पा०), दिल्ली: मोतीलाल बनारसीदास:, (पुनर्मुद्रणम् :२००४) 2. “व्याकरण महाभाष्यम्” पतञ्जलिः, शास्त्री मालाः (सम्पा॰) दिल्ली: चौखम्बा संस्कृतप्रतिष्ठानम् 3. “पररभाषेन्दुशेखरः” नागेशभट्टः, शर्मा गोविन्दः (सम्पा०), वाराणसी: चौखम्बा सुरभारती प्रकाशनम्, 4. “काशिका” वामनजयादित्यौ, विद्यावारिधिः विजयपालः (सम्पा०), दिल्ली: राधा प्रेस 5. “ लघुशब्देन्दुशेखरः”, नागेशभट्टः, द्विवेदी ब्रह्मदत्तः (सम्पा०), वाराणसी: चौखम्बा संस्कृत सीरीज 6. संस्कृत व्याकरणशास्त्र का इतिहास , युधिष्ठिर मीमांसक (प्रथम भाग)